पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३.९ सर्ग:]
269
शीघ्रं लां निवर्तस्व यदि जीवितुमिच्छसि

यदि [१] शूर्पणखाहेतोः जनस्थानगतः खरः ॥ २३ ॥
अतिवृत्तो हतः पूर्व रामेणाक्लिट कर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः १ ॥ २४ ।।

 अथ खरादिनाशस्य च तत्कृतान्यायमूलत्वात् तत्र च क्षमैव युक्तेत्याशयेनाह – यदी त्यादि । शूर्पनखीहेतोः जनस्थानगतः खरः पूर्व प्रथमं अतिवृत्तो जातः - - तूष्णीमेव स्थितं रामं स्वयं गत्वा अतिमर्याद तत्पीडाकरं युद्धप्रवृत्तिं कृतवान् पश्चात् तेन रामेण हतः, अत्र रामस्य को व्यतिक्रमः – अन्यायः ? त्वमेव ब्रूहि ॥ २३-२४ ।।

इदं वचो बन्धुहितार्थिना मया
यथोच्यमानं यदि नाभिपत्स्य से !
सबान्धवः त्यक्ष्यसि जीवितं रणे
हतोऽद्य [२]रामेण शरैरजिह्मगैः ॥ २५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकोनचत्वारिंशः सर्ग:

 अथ मथितसिद्धान्तमाह - इदमिति । यथोच्यमानं-परमार्थतः उच्यमानं, यदि नामिपत्स्य से-नाङ्गीकरिष्यसि तदा रणे हतः जीवितं त्यक्ष्यसीति, मया अद्यैव निश्चीयत इति शेषः । शर (२५) मानः सर्गः ॥ २५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकोनचत्वारिंशः सर्गः


  1. सीताहनने प्रवृत्तशूर्पणखाहेतोरित्यर्थः । तेन च शूर्पणखाविरूपणप्रतीकारेछाप न्याय्येति भावः । खरहननस्य प्राधान्येन रावणेनो कीर्तनात् अत्रैवमुक्तिः ।
  2. रामापराधे स्वद्वधस्य निश्चितत्वात्सन्निहितस्वाद्वा अग्रेत्युक्तिः ।