पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
rightअरण्यकाण्ड:
साहाय्यकानभ्युपगम:

बलिं वा नमुचिं वापि हन्याद्धि रघुनन
[१]रणे रामेण युध्यस्ख [२]क्षमां वा कुरु, [३]राक्षस ! ॥ १९ ॥
न ते रामकथा कार्या [४] यदि मां द्रष्टुमिच्छसि ।

 त्वं रामेण रणे युद्धं वा कुरु, क्षमां वा कुरु । अपि तु मां यदि जीवितं द्रष्टुमिच्छसि तदा मम पुरस्तात् रामकथा – रामप्रसङ्गः न कार्यः ॥ १९ ॥

बहवः [५]साधवो लोके युक्ता धर्ममनुष्ठिताः ।। २० ।।
परेषामपराधेन विनष्टाः सपरिच्छदाः ।

 साघव इति । अकृतापचारा इत्यर्थः । घमनुष्ठिता इति । ‘गत्यर्थाकर्मकश्लित्रशीङ्स्थे 'ति कर्तरि निष्ठा || २० ॥

सोऽहं [६]तवापराधेन [७] विनश्येयं, निशाचर ! ॥ २१ ॥
[८] कुरु यत्ते क्षमं तं त्वां अहं नानुनयामि ह ।

 ‘कुरु यत्त क्षमं तं त्वां अहं नानुनयामि ह' इति पाङ्कः । यत्ते क्षमं रणः क्षमा वा तत् त्वमेव कुरु । अहं तु त्वां नानुयामि । त्वहुद्धिं नानुगच्छामि ॥ २१ ॥

रामश्च हि [९]महातेजाः महासत्वो महाबलः ॥ २२ ॥
अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः ।

 तत्र हेतुमाह - रामश्चेत्यादि । स हि प्रसिद्धपराक्रमो रामः राक्षसकुलंस्य अन्तकरो भवेत् यदि तदा त्वामनुनयाम्यपि, नैतदस्ति, अतो नानुनयामीति पूर्वेण संबन्धः ॥ २२ ॥


  1. यदि अरित दर्पः त्वं रणे रामेण युध्यस्व, सर्वानर्धमूलसीतापहारं मा कुरु,
    मुख व्यर्थः ।
  2. न क्षमं तव - ङ.
  3. रावण-ज.
  4. न चैनं द्रष्टुमईसि - ङ..
  5. साधवः – स्वयं निरपराधाः ।
  6. परा-ज.
  7. न नश्येयं - ङ..
  8. कुरु यत्ते क्षमं तत् स्वं अहं त्वा नानुयामि ह
  9. महावीर्य:- ङ.