एतत् पृष्ठम् अपरिष्कृतम् अस्ति
rightअरण्यकाण्ड:
साहाय्यकानभ्युपगम:
त्वं रामेण रणे युद्धं वा कुरु, क्षमां वा कुरु । अपि तु मां यदि जीवितं द्रष्टुमिच्छसि तदा मम पुरस्तात् रामकथा – रामप्रसङ्गः न कार्यः ॥ १९ ॥
बहवः [५]साधवो लोके युक्ता धर्ममनुष्ठिताः ।। २० ।।
परेषामपराधेन विनष्टाः सपरिच्छदाः ।
साघव इति । अकृतापचारा इत्यर्थः । घमनुष्ठिता इति । ‘गत्यर्थाकर्मकश्लित्रशीङ्स्थे 'ति कर्तरि निष्ठा || २० ॥
‘कुरु यत्त क्षमं तं त्वां अहं नानुनयामि ह' इति पाङ्कः । यत्ते क्षमं रणः क्षमा वा तत् त्वमेव कुरु । अहं तु त्वां नानुयामि । त्वहुद्धिं नानुगच्छामि ॥ २१ ॥
रामश्च हि [९]महातेजाः महासत्वो महाबलः ॥ २२ ॥
अपि राक्षसलोकस्य न भवेदन्तकोऽपि सः ।
तत्र हेतुमाह - रामश्चेत्यादि । स हि प्रसिद्धपराक्रमो रामः राक्षसकुलंस्य अन्तकरो भवेत् यदि तदा त्वामनुनयाम्यपि, नैतदस्ति, अतो नानुनयामीति पूर्वेण संबन्धः ॥ २२ ॥