पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२ सर्ग:]
229
दृष्ट्वा च धीरमासीनं रावणं मूच्छिताऽब्रवीत्



क्षेप्तारं [१] पर्वतेन्द्राणां [२]सुराणां च प्रमर्दनम् ।
उच्छेत्तारं च धर्माणां परदाराभि [३] मर्शकम् ॥ १२ ॥
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुक्रिम् ।। १३ ।।
तक्षकस्य प्रियां भार्या पराजित्य जहार यः । SERE
कैलास पर्वतं गत्वा विजित्य नरवाहनम् ॥ १४ ॥
विमानं पुष्पकं तस्य कामगं वै जहार यः ।

 परदारामिमर्शक मितीममंशं दर्शयति-तक्षकस्यैत्यादि ॥ १४ ॥

वनं चैत्ररथं दिव्यं [४] नलिनीं नन्दनं वनम् ॥ १५ ॥
विनाशयति यः क्रोधात् देवोद्यानानि वीर्यवान् ।
चन्द्रसूर्यो [५]महाभागौ उत्तिष्ठन्तौ परन्तपौ ॥ १६ ॥
निवारयति बाहुभ्यां यः शैलशिखरोपमः ।
दशवर्षसहस्राणि तपः तवा महावने ॥ १७ ॥
पुरा स्वयंभुवे [६]धीरः शिरांस्युपजहार यः ।

 उपजहारेति । उपहारत्वेन कृतवानित्यर्थः ॥॥ १७ ॥

देवदानवगन्धर्व [७]पिशाचपतगोरगैः ।। १८ ।।
अभयं [८]यस्य संग्रामे मृत्युतो मानुषादृते ।

 मृत्युतः अभयमिति । मरणभयं नास्तीत्यर्थः ॥ १८ ॥

मन्त्रैः अभिषुतं पुण्यं अध्वरेषु द्विजातिभिः ॥ १९ ॥



  1. पर्वताग्राणां-ज.
  2. परेषां च - ङ.
  3. मर्शनम् - ङ. ज.
  4. नलिनीं – कुबेरस्य पुष्करिणीम् । नन्दनं वनं -इन्द्रोद्यानम् । देवोद्यानानि -नन्दनवनादन्यानि - गो.
  5. महावेगौ-ङ..
  6. वीरः-ङ.
  7. देवर्षि - ङ.
  8. सर्वभूतेभ्यः-ङ.