पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
228
[अरण्यकाण्ड:
शूर्पणखालङ्कागमनम्



देवगन्धर्वभूतानां ऋषीणां च महात्मनाम् ।
अजेयं समरे [१]शूरं [२] व्यात्ताननमिवान्तकम् ॥ ६ ॥
देवासुरविमर्देषु वज्राशनिकृतत्रणम् |
ऐगवतविपाणायैः [३] उद्धृष्टकिणवक्षसम् ॥ ७ ॥

 विमर्दः-युद्धम् । वज्राशनिकृतव्रणमित्यनेन तदवध्यत्वं दर्शितम् । उद्धृष्टकिणबक्षसं - उद्धृष्टेन - विलेखेन जातो यः किणः, तदङ्कितवक्षसमित्यर्थः ॥ ७ ॥

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।
विशालवक्षसं वीरं राजलक्षण [४] शोभितम् || ८ ||

 परिच्छदः - अलङ्कारः ॥ ८ ॥

[५] स्निग्धवैर्यसङ्काशं तप्तकाञ्चन [६].कुण्डलम् ।
सुभुजं [७] शुक्लदशनं महास्यं पर्वतोपमम् ।। ९ ।।

 बैडूर्य - श्यामरत्नम् ॥ ९॥

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।
अन्यैः शस्त्रप्रहारैश्च महायु।द्धेषु ताडितम् ।। १० ।

[८] आहताङ्गं [९]समस्तैश्च देवप्रहरणैस्तथा ।
अक्षोभ्याणां समुद्राणां [१०] क्षोभणं क्षिप्रकारिणम् ॥ ११ ॥

 क्षोभणं-“ कर्तरि ल्युट्”–क्षोभकर्तारम् ।। ११ ।।



  1. घोरं - ज.
  2. व्यक्तानन-ड.
  3. उत्कृत्त-ङ,उत्कृष्ट ज.
  4. लक्षितम्-ज.
  5. नद्ध-ज.
  6. भूषणम्-ङ.
  7. लक्षण-ङ.
  8. आइताङ्गैः-जं.
  9. समर्थैव - ङ. समस्तैस्तं- ज.
  10. क्षोभकं-ड..