पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३२ सर्ग:]
227
दृष्वेदं सव उद्विग्ना लङ्कां शूर्पणखाऽविशव



द्वात्रिंशः सर्गः

{{Block center|[[शूर्पणखालङ्कागमनम्]}}

[१] ततः 'शूर्पनखी दृष्ट्वा सहस्राणि चतुर्दश ।
हतान्येकेन रामेण रक्षसां [२] भीमकर्मणाम् ॥ १ ॥

 अथ शूर्पणखायाः रावणदर्शनम् । ततः शूर्पनखीत्यादि ॥१॥

दूषणं च खरं चैव [३] हतं [४]त्रिशिरसा सह ।
दृष्ट्वा पुनर्महा 'नाद [५] ननाद [६].जलदो यथा ॥ २ ॥

 महानादं ननादेति । इष्टवियोगजः लोकप्रसिद्धोऽयं नादः ॥ २ ॥ मादान्-ज.

सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम् ।
जगाम परमोद्विग्रा लङ्कां रावणपालिताम् || ३ |॥
सा ददर्श [७] विमानाग्रे रावणं दीप्ततेजसम् ।
[८]उपोपविष्टं सचिवैः मरुद्भिरिव वासवम् ॥ ४ ॥
आसीनं सूर्यसङ्काशे काञ्चने परमासने
रुक्मवेदि [९] गतं [१०]प्राज्यं ज्वलन्तमिव पावकम् ॥ ५ ॥

 रुक्मवेदिगतं-हिरण्येष्टकचितवेदि प्राप्तम् । तदुक्तं कल्पसूत्र-' सावित्रं स्वर्गकामश्चिन्वीत पञ्चाशीतिशतं हिरण्येष्टकाः ' इति । प्राज्यं-भूरिप्रकृष्टाज्यहोमवत् इत्यपीह | अत एव ज्वलन्तम् ॥ ५ ॥



  1. पूर्व अकम्पनवाक्यात् सीतापहारे प्रवृत्तस्य रावणस्य मारीचेन निराधेऽपि पुनः शुरेणखावाक्यात्तत्र प्रवृत्तिः ।
  2. क्रूरकर्मणाम्-ड.
  3. हतौ ङ.
  4. त्रिशिरसं रणे-ज.
  5. महानादमिति क्रियाविशेषणम्-गो. अथवा पार्क पचतीतिवत् 'महानादं ननाद' इत्युक्तिः ।
  6. जरूदोपमा ड.
  7. विमानाग्रे-पुष्पक विमानाप्रे-गो.
  8. उपोपविष्टः-ङ.
  9. कृतं- ङ.
  10. पूज्यं - ङ.