पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
230
[अरण्यकाण्ड:
शूर्पणखारुड्डागमनम्



 मन्त्रैः- प्रातरनुवाकप्रावस्तोत्रादिभिः अभिष्टुतं सोमं हविर्घानेषु- सोमाभिष्टवशालासु उपहन्ति-नाशयति ।। १९ ।।

[१]हविर्धानेषु यः सोमं उपहन्ति महाबलः ।
[२]आप्तयज्ञहरं क्रूरं ब्रह्मनं [३] दुष्टचारिणम् ।। २० ।।

 आप्तान्-दक्षिणादान कालं प्राप्तान् यज्ञान् हरतीति ।। २० ।।

[४] कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ।
[५] रावणं [६] सर्वभूतानां [७] सर्वलोकभयावहम् ।। २१ ।।
राक्षसी [८]भ्रातरं [९]शूरं सा ददर्श महाबलम् ।

 सा-राक्षसी शूर्पणखा ॥ २१ ॥

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ॥ २२ ॥
आसने सूपविष्टं च [१०] [११]काले कालमिवोद्यतम् ।

 काले–युगान्तकाले ॥ २२ ॥

राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम् ॥ २३ ॥
रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम् ।
[१२] अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ २४ ॥

 पौलस्त्यानां कुलं नन्दयतीति तथा ॥ २४ ॥



  1. हविर्षानेषु सोमसवनकर्मविशिंष्टेषु अध्वरेषु यशेषु द्विजातिभि:- कर्तृभिः मन्त्रै-रभिष्टुतं सोनं-चन्द्रमसं-रा. अभिष्टुतं-क्षरितं - गो.
  2. प्राप्तसर्व-ड.
  3. क्रूरकारिणम् - ज.
  4. कर्कशं-निर्दाक्षिण्यं,निरनुकोश-निर्दयम् - गो.
  5. रावणे- रावकम् - गो.
  6. सर्वलोकानां - ङ..
  7. सर्वभूत- भयंकरम् - ङ
  8. राक्षमं- ङ.
  9. क्रूरं - ज.
  10. कालकालं – मृत्योरपि
  11. कालकाल-ङ.
  12. इदमधं ज पुस्तके 'रावणं शत्रुहन्तारं' इत्यतः पूर्व पठितम् ।