पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
156
[अरण्यकाण्ड:
खराभिषेणनम्



एवं विलप्य बहुशः राक्षसी विततोदरी' ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥ २२ ॥

 इत्यापें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकविंशः सर्गः



खर (२२) मानः सर्गः ॥ २२ ॥

 इति श्रीमद्रामायणामृतकतटीकायां अरण्यकाण्डे एकविंश: सर्ग:


द्वाविंशः सर्गः

[खरामिषेणनम्]

एवमाधर्षितः शूरः शूर्पनख्या खरस्तदा ।
उवाच रक्षसां मध्ये खरः खरतरं वचः ॥ १॥

 अथ शूर्पणखाप्रोत्साहितस्य युद्धसंनाहः । एवमाघर्षितः इत्यादि । आघंर्षितः- कोपादवमानितः इत्यर्थः । खरतरं - क्रूरतरम् ||

तवा [१]वमानप्रभवः क्रोधोऽयमतुलो मम ।
न शक्यते धारयितुं [२] लवणाम्भ [३] इवोत्थितम् ॥ २ ॥

 लवणाम्भ इति । लवणसमुद्राम्भः इत्यर्थः ॥ २ ॥

न रामं गणये वीर्यात् मानुषं [४] क्षीणजीवितम् ।
[५] आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति ॥ ३ ॥



  1. अवमानं -- विरूपणरूपम् ।
  2. लवणाम्भ इवोल्गणं - व्रण इति शेषः । व्रणे
    निक्षिप्तं लवणयुक्तमंभ इव भारयितुं न शक्यते-ती. उत्थितं-पर्वणि उल्बणम्-गो.
  3. इवोलणम् - ज.
  4. क्षणज्जीवितम्-रु.
  5. आत्मनः दुश्चरितैः स्वद्विरूपणादिभिः ।