पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१ सर्ग:]
155
रामात् भीतस्त्वमित्येवं सा निनिन्द्र तदा रम्



 अथ खरस्य क्रोषोत्पत्त्यर्थं आह -- बुद्धयेत्यादि । सबल:- बलोपेतोऽपीत्यर्थः ॥ १६॥

शूरमानी न शूरस्त्वं मिथ्याऽऽरोपितविक्रमः ॥ १७ ॥
मानुषौ यौ न शक्नोषि हन्तुं तौ रामलक्ष्मणौ ।

 मिथ्या- मृषैव स्वस्मिन् आरोपितो विक्रमः येन स तथा । तत्र हेतुमाह - मानुषावित्यादि ॥ १७ ॥

रामेण यदि ते शक्तिः तेजो वाऽस्ति, निशाचर ! ।। १८ ।।
 [१]दण्डकारण्यानलयं [२]जहि त्वं, कुलपांसन !
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ॥ १९ ॥
अपयाहि जनस्थानात् त्वरितः सहबान्धवः ।

 जहि त्वमिति । राममिति शेषः । अन्यथा बु पांसन ! त्वं सहबान्धवः जनस्थानात् अपयाहि । निर्वीर्यत्वादि- गुणकस्य ते इह कीदृशो वास: ! अतिजुगुप्सित एवेत्यर्थः । कुल- पांसनेत्येव पाङ्कः । दुर्योजनत्वात् पौराणिकानां इह यथेष्टाः पाठाः ।।

रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ॥ २० ॥
स हि तेजःसमायुक्तः रामो दशरथात्मजः ।
आता चास्य महावीर्य: येन चास्मि विरूपिता ॥ २१ ॥

 अपयाहीत्यत्र हेतुमाह — रामतेज इत्यादि ॥ २०-२१ ।।



  1. व्याख्यादृष्टया -'जहि त्वं समरे मूढाऽन्यथा तु कुलपांसन 12-इति पाठः
    स्यादिति भाति ॥
  2. जद्दि तं-ङ