पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
154
[अरण्यकाण्ड:
खरसन्धुक्षणम्



विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
[१] किं मां न त्रायसे मनां विपुले शोकसागरे ॥ १२ ॥
एते च निहता भूमौ निहता [२]भूमौ रामेण निशितैः शरैः
येsपि मे पदवीं प्राप्ताः राक्षसाः पिशिताशनाः ॥ १३ ॥

 ये च मे पदवी प्राप्ताः त एते राक्षसाः भूमौ स्थितेन पदातिना रामेण निहताः ॥ १३ ॥

मयि ते यद्यनुक्रोशः [३] यदि रक्षःसु तेषु च ।
[४].रामेण यदि ते [५] शक्तिः तेजो वाऽस्ति, निशाचर ! ॥
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ।

 रामेण यदि ते शक्तिरिति । योद्धुमिति शेषः ॥ १४ ॥

यदि रामं [६] ममामित्रं न त्वमद्य वधिष्यसि ॥ १५ ॥
तव चैवाग्रतः प्राणान् त्यक्ष्यामि || निरपत्रपा |

 निरपत्रपेति । छिन्ननासिकत्वादित्याशयः ॥ १५ ॥

बुद्धयाऽह [७]मनुपश्यामि न त्वं रामस्य संयुगे ॥ १६ ॥
स्थातुं प्रतिमुखे शक्तः [८]सबलश्च महात्मनः ।



  1. एतेन-खर: तेषां रक्षसां क्षणेनैव वधं श्रुत्वा भयविह्वलोऽभूदिति सूच्यते । अत
    एव शूर्पणखा खरं परुषाक्षरं वदति । अनन्तरसर्गारंभे च ' एवमाधर्षितः ' इत्यप्य-
    वलोकनीयम् । अथ वा क्रोधमूर्छितः खर: क्षणं तूष्णीमास । शूर्पणखा तु तं त्रस्तं
    जानन्ती उद्वेजयामासेति वा ज्ञेयम् |
  2. इति मृताः सन्तो भूमौ पतिता इत्यर्थकं भयसंरंभमूलकं वचनं वा अनुपदमेव हि " तान् दृष्ट्वा पतितान् भूमौ इत्युक्तम् ।
  3. अनुक्रोश: - दया ।
  4. रामे वा-ङ
  5. शक्तिरिति । तुल्येति शेषः - गो. || निरपत्रपा-वैरानिर्यातनात् ।
  6. अमित्रर्ध--ज.
  7. मनुशोचामि-ड.
  8. सचापस्य-ड.