पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:]
153
आचचक्षे वधं तेषां राक्षसानां खराय सा



अनाथवद्विलपसि नाथे तु मयि संस्थिते ।
उत्तिष्ठोत्तिष्ठ मा भैषीः वैकुव्यं त्यज्यतामिह ॥ ५ ॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।
[१] विसृज्य नयने [२] सासे खरं भ्रातरमब्रवीत् ।। ६ ।।
[३] अस्सीदानीमहं प्राप्ता हृतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥ ७ ॥

 अस्मीत्यादि । हृतश्रवणनासिका शोणितौघपरिक्किन्ना अहमिदानीं पुनश्च त्वत्समीपं प्राप्ताऽस्मि, त्वया परिमांत्विता चास्मि, अतो वृत्तान्तं वक्ष्यामीति शेषः ।। ७ ।।

प्रेषिताश्च त्वया, वीर! राक्षसास्ते चतुर्दश ।
निहन्तुं राघवं [४] क्रोधात् मत्प्रियार्थ सलक्ष्मणम् ॥ ८ ॥
ते तु रामेण सामर्षाः शूलपट्टसपाणयः ।
समरे निहताः सर्वे सायकैः मर्मभेदिभिः ।। ९ ।।
तान् दृष्ट्वा पतितान् भूमौ [५] क्षिणेनैव महाबलान् ।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ।। १० ।।

 क्षणेनैवेति । न तु चिरकालयुद्धक्लेश पूर्वमित्यर्थः ।। १० ।।

[६]अहमस्मि समुद्विग्ना विषण्णा च, निशाचर !
शरणं त्वां पुनः प्राप्ता [७] सर्वतो भयदर्शिनी ॥ ११ ॥

 सर्वतो भयदर्शिनीति । सर्वतो रामप्रतिभासनादिति शेषः ॥



  1. विवृत्य -ङ.
  2. साssस्यें-ङ.
  3. अहं प्राप्ताऽस्मीत्यन्वयः । 'अस्मि जीवामि इति अतिनिवेदसूचनं वा । एवख
    हृतश्रवण नासिका' इत्याधुत्कीर्तनमपि सरसम् ।
  4. पोरं-ज.
  5. गतसर्ग २६ श्लोक टिप्पण्युतदिशा रामहस्तलाघवादिकमत्र विवक्षितम् ।
  6. साsस्मि भीता-ज.
  7. रामनिमित्तं भयमत्रं विवक्षितं वा ।