पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२ सर्ग:]
167
आदिशत् दूषणं सेनापति रुडः खरस्वतः



 आत्मदुश्चरितैः स्वयं हतो योऽद्य प्राणान् विमोक्ष्यते, तं रामं न गणये इत्यन्वयः ॥ ३ ॥

बाष्पः संहियतामेषः संभ्रमश्च विमुच्यताम् ।
अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥ ४ ॥
परश्वधहतस्याद्य मन्दप्राणस्य [१]संयुगे
रामस्य रुधिरं रक्तं उष्णं पास्यसि, [२]राक्षसि ! ॥ ५ ॥

 परश्वषहतस्येति । तस्य परश्वधं मुख्यं आयुधम् ॥ ५ ॥

सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनात् च्युतम् ।
प्रशशंस पुनमर्यात् [३] भ्रातरं रक्षसां वरम् ॥६॥

 मौर्यात्- अव्यवस्थचित्ततालक्षणात् । पुनः प्रशशंस च-त्वत्समो वीरो नास्तीत्यादिना ॥६॥

तया परुषितः पूर्व पुनरेव प्रशंसितः ।
अब्रवीत् दूषणं नाम खरः सेनापतिं तदा ॥ ७ ॥

 अयमेवार्थः विव्रियते--तयेत्यादि ॥ ७ ॥

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।
रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥
 [४]नीलजीमृतवर्णानां घोराणां [५]क्रूरकर्मणाम्
लोकहिंसाविहाराणां बलिनामुग्रतेजसाम् ॥ ९ ॥



  1. भूतले-ज.
  2. कांक्षितम्-ङ.
  3. मौर्यात् - स्वाज्ञानाव-रा.
  4. एतदर्घद्वयस्थाने 'नीलजीमूतवर्णानां लोकहिंसाविहारिणाम्' इतिमात्रम् - ङ.
  5. कामरूपिणाम्-ड.