पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
142
[अरण्यकाण्ड:
खराक्रोश:



ततः सभायं भयमोहमूर्च्छित
सलक्ष्मणं राघवमागतं वनम् ।
विरूपणं चात्मनि शोणितोक्षिता
शशंस सर्व भगिनी खरस्य सा [१] ॥ २६ ॥

 इलायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टादशः सर्गः


 अथास्याः वृत्तान्तकथनं कविः संक्षिप्याह- -तत इत्यादि । भयजा मोहः-विसंज्ञता, तथा मूच्छिता-व्याप्ता तथा । उच्यमान- विशेषणं रामं वनमागतं शशंस, आत्मविरूपणं च शशंस; कृतमिति शेषः । चार (२६) मानः सर्गः ॥ २६ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अहादश: सर्ग: एकोनविंशः सर्गः


एकोनविंशः सर्गः

[खराक्रोशः]


तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् ।
भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ १

 अथ पूर्वसर्गान्तसंक्षिप्त कथितार्थस्यैव प्रपञ्चः-तां तथेत्यादि ।



  1. अत्रेदं बोध्यम् – दशवर्षगमनोत्तरं पुन: सुतीक्ष्णाश्रमगमनं रामस्य | तत्र च वर्षाकालापगमपर्यन्तं स्थित्वा किचिच्छिष्टे एकादशेऽगस्त्याश्रमगमनम्। ततो वर्षाकालारम्भे पट्यां वासः, मयूरनादिता रम्या' इति तत्रोक्तेः । एवं बसतस्तस्य शरब्यपाये हेमन्तर्तुः प्रविष्ट इत्युक्तेः अत्र द्वादशवर्षपूर्तिः । 'पक्षमे पश्चमे वर्षे द्वौ द्वावधिकमासको इत्युक्त: मार्गशुक्कैकादश्यां त्रयोदशारम्भः । अन्ये तु त्रयोदशे किदिवशिष्टे शूर्पणखाऽऽगमनम् । ततो माघे सीतापहरणमित्याहुः - ति.