पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९. सर्ग: ]
143
पृष्टा शूर्पणखा तेन वृत्तं तस्मै न्यवेदयत्



उत्तिष्ठ तावदाख्याहि प्रमोहं जहि संभ्रमम् ।
व्यक्तमाख्याहि, केन त्वं [१] एवंरूपा विरूपिता ॥ २ ॥

 प्रमोहः-विसंज्ञता । संभ्रमः - चित्ताप्रतिष्ठा, तत्सहितं कर्म च तथा । एवंरूपा त्वं एवं केन विरूपिता इति योजना ॥ २ ॥

कः कृष्णसर्पमासीनं आशीविषमनागसम् ।
तुदत्य भिसमापनं अङ्गुल्यग्रेण लीलया || ३ ||

 आशिषि-दंष्ट्रायां विषं यस्य स तथा, पृषोदरादित्वात् साधुः । आशीरुरगदंष्ट्रायां प्रियवाक्याभिषङ्गयोः ” ॥ ३ ॥

कः कालपाशमासज्य कण्ठे मोहान्न बुद्धयते ।
यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम् ॥ ४॥

 उत्तमं विषमिति । त्वद्विरूपणतालक्षणमिति शेषः ॥ ४ ॥

बलविक्रमसंपन्ना कामगा कामरूपिणी ।
इमामवस्थां नीता त्वं केनान्तकसमा [२]गता [३]॥ ५ ॥

 इमामवस्थामित्यादि । अन्तकसमा त्वं गता-कस्य समीपं गता, केन इमामवस्थां नीता ॥ ५ ॥

देवगन्धर्वभूतानां ऋषीणां च महात्मनाम् ।
कोऽयमेवं विरूपां त्वां महावीर्यः चकार ह ॥ ६ ॥

 महात्मनामिति । मध्य इति शेषः ॥ ६॥



  1. एवंरूपविरूपिता-ङ.
  2. मता- ङ.
  3. इतो गता त्वं केनेमामवस्थां नीतेत्यन्वयः-गो. अन्तकसमागता कालसमत्वं प्राप्ता त्वं इमामवस्थां केन नीता-रा. अन्तकसमा त्वं कस्य समीपं गता, येनेमामवस्थां गता। अन्तकसमा त्वं केनेभामवस्थां नीता अत्रागतेति वा-ति. अन्तकसमा त्वं केने-मामवस्थां नीता- प्रापिता सती आगता, अत्रेति शेषः-ती.