पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४ सर्ग:]
141
सा गर्जन्ती ययौ तूर्ण राक्षसं खरमग्रजम्



इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो [१]. रामस्य [२] पार्श्वतः ।
उद्धृत्य खड्गं चिच्छेद [३] कर्णनासे महाबलः [४] ॥ २१ ॥

 पार्श्वत इति । स्थितमिति शेषः । कर्णनासे इति सर्वतः पाङ्कः । कर्णश्च नासा च कर्णनासे । सर्वो द्वन्द्वो विभाषैकवत्' इति वार्तिके सर्वशब्दस्य 'द्वन्द्वश्च प्राणि' इत्यादिना नित्यविहितैकवद्भावद्वन्द्व- स्थलेऽपि पाक्षिकत्वप्रापणप्रयोजनत्वात् एकवद्भावाभावः ॥ २१ ॥

निकृत्तकर्णनासा तुःविस्वरं सा विनद्य च ।
यथाऽऽगतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥
साविरूपा महाघोरा राक्षसी शोणितोक्षिता ।
ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥ २३ ॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना ।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ २४ ॥

 प्रगृह्येति । इह सर्वत्र उद्यमार्थ: प्रग्रहशब्दः । उद्यम्य ॥ २४ ॥

ततस्तु सा राक्षससंघसंवृतं
खरं जनस्थानगतं विरूपिता ||
उपेत्य तं भ्रातरमुग्र
  [५]दर्शनं
पपात भूमौ गगनाद्यथाऽशनिः ॥ २५ ॥

 यथा अशनिः—अशनिरिव गगनात् भूमौ पपात ।।२५ ।।



  1. रामस्य पश्यतः चिच्छेद-रा
  2. पश्यतः - ङ. ज.
  3. कर्णनास- ङ.
  4. रामे बद्धभावाया अपि शूर्पणखाया: तदीया-पचारेण हानिर्जातेत्यनुसन्धेयम्-गो. वस्तुतस्तु 'शरीरजसमाविष्टा' (17-12) इति पूर्व कथनात् शूर्वणखाया: भाव: केवलभौतिक एवेति च तस्याः रामाप्राप्तिः,इण्डमाप्तिश्च ।
  5. तेजसं ज.