पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
132
[अरण्यकाण्ड:
शूर्पणखाssगम:



 अथ शूर्पणखासमागमः । कृताभिषेक इत्यादि । ततः- अनन्तरम् ॥ १ ॥

आश्रमं तमुपागम्य राघवः सहलक्ष्मणः ।
कृत्वा पौर्वाहिक [१]कर्म पर्णशालामुपागमत् || २ ||
उवास [२] सुखितः तत्र पूज्यमानो महर्षिभिः ।
[३]लक्ष्मणेन सह भ्रात्रा [४] चकार विविधाः कथाः ॥ ३ ॥
स रामः पर्णशालायां आसीनः सह सीतया ।
विरराज महाबाहुः चित्रया चन्द्रमा इव ॥ ४ ॥

 चित्रया - चित्रानक्षत्रेण ॥ ४ ॥

[५]तथाऽऽसीनस्य रामस्य कथासंसक्तचेतसः ।
तं देशं राक्षसी [६]काचित् आजगाम यदृच्छया ॥ ५ ॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः ।
[७]भगिनी राममासाद्य ददर्श त्रिदशोपमम् || ६ ||

 शूर्पणखेति । 'नखमुखात् संज्ञायाम्' इति ङीब्निषेधः ॥ ६ ॥

[८]सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ।
आजानुबाहुं दीप्तास्यं अतीव प्रियदर्शनम् ॥ ७ ॥

 दीप्तास्यमिति । कान्तिमन्मुखमित्यर्थः ॥ ७ ॥



  1. सर्व-ड.
  2. सहित:- ङ.
  3. इदमर्ध कुत्रचित् 'विरराज इत्याबधनन्तरं दृश्यते-ङ. ज.
  4. चकार- उवाचेत्यर्थ:- गो.
  5. तदा-ङ.. ज.
  6. कामात्-ड..
  7. राममासाद्य ददर्श - रामं वृड्वाऽऽससा देत्यर्थ:-गो. अथ वा रामसमीपमागत्य
    ददशेंत्यर्थः; तेन रामसौन्दर्यानुभवसंभवः क थितो भवति ॥
  8. अयं श्लोक:-ज पुस्तके कुण्डलित: । एतदर्धद्वयस्थाने ' दीप्तास्यं च महाबाहुं पद्मपत्रायते-क्षणम्' इति च पाठ:-ज.