पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७ सर्ग:]]
133
कन्दर्पसदृशं रामं साऽपश्यत् रावणानुजा


गजविक्रान्तगमनं जटामण्डलधारिणम् |
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् ॥ ८ ॥
राममिन्दीवरश्यामं कन्दर्प [१] स दृशप्रभम् ।
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥ ९ ॥

 गजस्येव विक्रान्तेन-गदविक्षेपेण गमनं यस्य स तथा । व्यञ्जनं - लक्षणं, प्रीतिरूपसन्तोषकरस्वरूपमित्यर्थः ॥ ९ ॥

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी ।
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ १० ॥
[२] [३]प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ११ ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना ।
शरीरजसमाविष्टा राक्षसी [४]वाक्यमब्रवीत् ॥ १२ ॥

 तरुणं वृद्धा, दारुणा घृणावन्तमिति शेषः । दक्षिणं- सुभाषित- समर्थम् । वामभाषिणी-कटुभाषणशीला । शरीरजः - कामः ॥

[५]जटी तापस रूपेण सभार्यः शरचापष्टत् ।
आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥ १३ ॥
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ।

 तत्त्वं यथा तथेत्यर्थः ॥ १३ ॥ एवमुक्तस्तु राक्षस्या [६]शूर्पनख्या परन्तपः ॥ १४ ॥



  1. सद्रुशं प्रभुम्-ङ,
  2. प्रीतिरूपं - - प्रीयत इति प्रीतिः, प्रियरूपम्-गो.
  3. प्रियरूपं-ड. ज.
  4. राम-ड..
  5. मुनिवेषस्य शरत्रापा-देवाननुरूपत्वमभिमतम् ।
  6. यौगिकार्थविवक्षामिप्रायेण एवमुक्तिः । अन्यथा हि णत्वेन भाव्यम् ।