पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७ सर्ग: ]
131
तत्र शूर्पणखा नाम राक्षसी काचिदाययौ



तर्पयित्वाऽथ सलिलैः ते पितॄन् दैवतानि च ।
[१]स्तुवन्ति स्मोदितं सूर्य देवताश्च [२] समाहिताः ॥ ४२ ॥

कृताभिषेकः स रराज रामः
सीताद्वितीयः सह लक्ष्मणेन ।
[३]कृताभिषेको गिरिराजपुत्र्या
[४]रुद्रः [५]सनन्दी भगवानिवेशः ॥ ४३ ॥

 इत्याषें श्रीमद्रामायणे वारमीकी ये अरण्यकाण्डे षोडशः सर्गः



वेग (४३) मानः सर्गः ॥ ४३ ॥

 इति श्रीमद्रामायणामृतकतकटी कायां अरण्यकाण्डे षोडशः सर्गः


सप्तदशः सर्गः

[ शूर्पणखाऽऽगमः ]

[६]कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
तस्मात् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम् ॥ १ ॥



  1. स्तुवन्ति स्म - उपतस्थिरे, 'मित्रस्य ' इत्यादिमन्त्रैः, सीता तु अमन्त्रेण - गो.
  2. तथाऽनघा:- ङ. ज.
  3. कृताभिषेक स्त्वगराज - ङ.. ज.
  4. रुद्रः सनन्दीत्युपमया दुष्प्रघर्षणत्वमुच्यते । ‘रुद्रः सविष्णुर्भागवानिवेश: '
    इति न क्वचिदपि कोशे दृश्यते । कश्चित्तु दृश्यत इत्याह । तदा अभूतोपमेति युक्तम्- गो.
    रुद्रोपमया संहाराविष्टचित्तत्वं दर्शयति-ति.
  5. सविष्णुः - ज. झ.
  6. एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथम प्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेवती तेषु कदाचित् चैत्रमासे प्रसक्तं भाविसकलराक्षस-बधनिदानस्वेन शूर्पणखावृत्तान्तमुपक्षिपति-गो. " एवं संवसतस्तस्य मुनीनामाश्रमेषु वै । रमतश्चानुकूल्येन ययुः संवत्सरा दश (अर. 11-28) इति कथितत्वात्,सीतापहरणकाले वनवासस्य एकवत्सरमात्र परिशेषावगमाच्च 'ततः त्रिषु संवत्सरेष्वतीतेषु'इत्युक्तम् ।