पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५ सर्गः ]
119
एवमुक्तस्तु सौमित्रिः अकर तू रम्यमाश्रमम्



चन्दनैः स्पन्दनैः नीपैः [१]पर्णासैः लिकुचैरपि ।
धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८॥

 खर्जूर:- (GunFons), नीवार:-(c), पुन्नाग:- (4sir 207), स्पन्दनः - तिमिशभेदः । नीप:- (sinu), पर्णासः- पिणिज्जकः । लिकुच:- "लकुचो लिकुचो डहुः" । घवः-(@Lo), अश्वकर्ण:- सर्ज:- (बी (लका) ॥ १८ ॥

इदं पुण्यं इदं [२]मेध्यं इदं बहुमृगद्विजम् ।
इह वस्त्यामि, सौमित्रे ! सार्धमेतेन पक्षिणा ॥ १९ ॥

 एतेन पक्षिणेति-जटायुषेति यावत् ॥ १९॥

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ।
[३]अचिरेणाश्रमं भ्रातुः चकार सुमहाबलः ॥ २० ॥
+ पर्णशालां सुविपुलां तत्र [४] सङ्घातमृत्तिकाम् ।
सुस्तम्भां मस्करैः दीर्घेः कृतवंशां सुशोभनाम् ॥ २१ ॥
शमीशा खाभिरास्तीय दृढपाशावपाशिताम् ।
कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा ॥ २२ ॥
समीकृत [५]तलां रम्यां चकार लघुविक्रमः [६]
निवासं राघवस्यार्थे [७] प्रेक्षणीयमनुत्तमम् ॥ २३ ॥

 सङ्घातमृत्तिका:- भित्त्यात्मना सङ्घाता मृत्तिका यस्यां सा तथा । मस्करा:- वेणवः । कृतवंशां कृतवंशपरिक्षेपवतीम् । शमीशाखाभि-



  1. पनसै:- ङ. ज.
  2. रम्यं - ज.
  3. आश्रमं - अङ्गणादि विस्तारवदाश्रमप्रदेशम्-गो.
  4. संखात-उ..
  5. ब-झः
  6. शमी शाखेत्यायमंत्र्यंझ पुस्तके नास्ति,
  7. चकार लघुविक्रम:-झ.