पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
118
[अरण्यकाण्डः
पवटीनिवास:



हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।
[१]नातिदूरे न चासन्ने मृग़यूथनिपीडिता ॥ १३ ॥

 यथा आख्यातं तथा इयं गोदावरी दृश्यते इति अविपरिणामे- नान्वय: । मृगयूथनिपीडितेति । निबिडेति यावत् । पानार्थमागतैरिति शेषः ।। १३ ।।

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः
दृश्यन्ते गिरयः, [२] सौम्य ! [३] फुल्लैः तरुभिरावृताः ॥ १४ ॥

 प्रांशवः - उन्नताः । फुल्लै: 'अनुपसर्गात् फुल्ल' इति निपातितः ॥

[४] सौवर्णै: राजतैः ताम्रैः देशे देशे च धातुभिः ।
गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः ॥ १५ ॥

 सौवर्णैरिति । सुवर्णाभरिति यावत् । गवाक्षिता इति । (चिता इति ?) भक्तिभिः गवाक्षिता गजा इवेत्यन्वयः ।भक्तयः- अलङ्कार- विशेषाः ।। १५ ।।

[५]सालैः तालैः तमालैब खर्जूरपनसाम्रकैः ।
नीवारैः [६] तिमिशैश्चैव पुन्नागैचोपशोभिताः ।। १६ ।।
चूतैरशोकैः तिलकैः चम्पकैः केतकैरपि ।
पुष्पगुल्मलतोपतैः तैस्तैः तरुभिरावृताः ॥ १७ ॥



  1. अस्याः गोदावर्या गिरिभिश्चान्वयः काकाक्षिन्यायात् । मृगेत्यादि गिरिविशेष-
    णम्- गो. तीर्थदृष्टयापि नातिदूरेत्यादिपादत्रयमेकं वाक्यम् ।
  2. सौम्याः-ड. अ.
  3. पुष्पितैस्तरुमिंता:- ङ.
  4. सुवर्णादिसदृश: पातुभिः उपलक्षिता: गजा: गवाक्षिता इवाभान्ति गजानां हि गवाक्षाकाराः भक्तीः कुर्वन्ति- गो. सौ वर्गादिधातुभिरूपलक्षिताः गिरयः परमभक्तिभि:- नीलपीतादिवर्णर चनाभि: गवाक्षिताः- चित्रिताः, अलंकृता इति यावत, गजा इवाभान्ति ती.
  5. सालदिमिरुपलक्षितां गिरयो दृश्यन्त इत्यन्वयः ।
  6. तिनिशैः