पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
120
अरण्यकाण्ड:
पचवटीनिवास:



रास्तीति । तिर्यग्वंशपरिक्षेपोपरीति शेषः । तदान्तरै: दृढपाशैरव- पाशिताम्- संजातपाशबन्धां कृत्वेत्यर्थः 1:1 काश: - ( In Giv), शरः- (Ganpowa) ॥ २३ ॥

स गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा ।
स्नात्वा पद्मानि चादाय [१] [२]सफलः पुनरागतः ॥ २४ ॥

 स गत्वेति । एवं संपादनानन्तरमिति शेषः ॥ २४ ॥

ततः [३] [४] पुष्पबलिं कृत्वा शान्ति च स यथाविधि ।
दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २५ ॥

 यथाविधीति । स्वयमेव कृत्वेत्यनुकर्षः ॥२५॥

स तं दृष्ट्वा कृतं सौम्यं आश्रमं सह सीतया ।
राघवः पर्णशालायां हर्षमाहारयत् [५]भृशम् ॥ २६ ॥
सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा ।
[६]अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत् ॥ २७ ॥

 आहारयत्-प्राप्तवान् ।। २७ ।।

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं, प्रभो ! ।
प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २८ ॥

 प्रभो-समर्थ ! यन्निमित्तं–यदाश्रमनिर्माण निमित्तं प्रदेयः पारितोषिकोऽस्ति, तन्निमित्तं परिष्वङ्ग एवाद्य मया कृतः । अन्यस्य कस्यचित् इह दातव्यवस्तुनोऽभावात् ॥ २८ ॥



  1. पूजार्थ आहारार्थ वा आनीतैः फलैः सहितः ।
  2. सजल: -ड.
  3. पुष्पाञ्जलिं--ड.
  4. पुष्पवलिं–वास्तुपूजां-गो.
  5. परम्-ङ.. ज
  6. परिष्वङ्गक्रियाविशेषणमिदं द्वयम् ।