पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ सर्ग:]
111
रामोऽपि हृष्टः तेनैव साकं पचवटीं ययौ



नरकं [१] कालकं चैव [२] कालिकाऽपि व्यजायत ।
क्रौञ्चीं [३]भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ १७ ॥

[४]ताम्राऽपि सुषुवे कन्याः पञ्चैता लोकविश्रुताः ।

ताम्रापुत्रीणां क्रौञ्चयादीनां सन्तानोपदेशः - क्रौञ्चीमित्यादि ।

उलूकान् जनयत् क्रौञ्ची भासी भासान् व्यजायत ॥ १८ ॥
श्येनी श्येनांच गृध्रांश्च व्यजायत सुतेजसः ।
धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः ॥ १९ ॥
चक्रवाकांच, [५] भद्रं ते, विजज्ञे सापि भामिनी ।
शुकी नतां विजज्ञे तु नताया विनता सुता ॥ २० ॥

 चक्रवाकांश्च भद्रं ते इति । संबोधनायाश्च मध्ये " 'भद्रं ते इति प्रयोगः कवेः शैली सर्वत्र । हे राम! ते भद्रमस्तु, शृणु इति शेषः । शुक्री-पञ्चमी ताम्रापुत्री नताख्यां विजज्ञे । अन्तर्भावितणिः । जनयति स्म ॥ २० ॥

[६]दश क्रोधवशा, राम ! विजज्ञे ह्यात्मसंभवाः ।
मृगीं च मृगमन्दां च हरिं भद्रमदामपि ॥ २१ ॥
[७] मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा ।
सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ॥ २२ ॥


क्रोधवशा तु काश्यपषष्ठपत्नी । तस्याः दशापत्यान्याइ - मृर्गी चेत्यादि ॥ २२ ॥



  1. कालिकं - ङ..
  2. कालका-ड.. ज.
  3. हंसी-ड..
  4. नाम्ना तु-ड..
  5. अप्रसक्तवृत्तान्तानादरप्रतिषेधाय मध्ये 'भद्रं ते इत्युक्तिः - गो.
  6. ततः क्रोशवशा-ङ..
  7. मातङ्गा-ड.