पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
110
[ अरण्यकाण्डः
जटायुस्सङ्गमः



ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।
दक्षकन्यानां काश्यपपत्नीनां मष्टानां नामानि अदितिमित्यादि ॥

तास्तु कन्याः ततः प्रीतः [१]. काश्यपः पुनरब्रवीत् ।। १२ ।।
पुत्रान् त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान् ।
अदितिस्तन्मनाः, राम ! दितिश्च, [२]मनुजर्षभ ! ॥
कालिका च, महाबाहो ! शेषास्त्वमनसोऽभवन् !

 तन्मनौ इति । तत्सहशोर्ध्वस्रोतः पुत्रोत्पादनाभिलाषवतीत्यर्थः ॥

[३]अदित्यां जज्ञिरे देवाः त्रयस्त्रिंशदरिन्दम ! ॥ १४ ॥
आदित्या वसवो रुद्रा ह्यश्विनौ च, परन्तप ।

 अश्विनौ चेति । आहत्य त्रयस्त्रिंशत् ॥ १४ ॥

दितिस्त्वजनयत् पुत्रान् दैत्यांस्तात ! यशस्विनः ॥
तेषामियं वसुमती पुराऽऽसीत् सवनार्णवा ।

 तेषामिति। दितिपुत्राणामित्यर्थः । वनैः अर्णवैश्च सहिता सवनार्णवा ॥ १५ ॥

दनुस्त्वजनयत् पुत्रं अश्वग्रीवमरिन्दम ! ।। १६ ।।



  1. कश्यपः - ङ.. ज
  2. मनुरेव च-ङ. दनुरेव च-ज
  3. भर्तृवचनादरानादरफले दर्शयति- अदित्यामित्यादिना - गो.