पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४ सर्ग:]
109
स गृधः प्राह चात्मानं मित्रं दशरथप्रियम्



पूर्वकाले, महाबाहो ! ये प्रजापतयोऽभवन् ।
तान्मे निगदतः सर्वान् आदितः शृणु, राघव ! ॥ ६ ॥

 पूर्वकाल इति । भगवतो विराजो ब्रह्मणः अइरादिसर्ग काले इत्यर्थः । तानिति-प्रजापतीनित्यर्थः ॥ ६ ॥

[१].कर्दमः प्रथमस्तेषां [२]'विक्रीतस्तदनन्तरः ।
शेषश्च [३] संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ७ ॥
स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः ।
पुलस्त्यश्वाङ्गिरचैवं प्रचेताः पुलहस्तथा ॥ ८ ॥
दक्षो विवखानपरोऽरिष्टनेमिश्र, राघव ।
काश्यपश्च महातेजाः तेषामासीच्च पश्चिमः ॥ ९ ॥

 विराजः कारणप्रजापतेः यज्ञाख्यमूलविद्यायाः एकैकाक्षर- प्राधान्यजाः सप्तदश प्रजापतयः कर्दमाद्याः ॥ ७-९ ।।

प्रजापतेस्तु दक्षस्य बभूवुरिति [४]विश्रुतम् ।
षष्टिर्दुहितरो राम ! यशस्विन्यः, महायशः ! ॥ १० ॥

 षष्टिः दुहितरः बभूवुरित्यन्वयः । महायशः इति रामसंबुद्धिः ॥

[५].काश्यपः प्रतिजग्राह तासामष्टौ [६]सुमध्यमाः'[७]
अदितिं च दितिं चैव [८] दनुमप्यथ कालिकाम् ॥ ११ ॥



  1. कर्दमाद्याः सप्तदश प्रजापतय:-ति. सप्तदशः पश्चिमः-पश्चाज्जातः कश्यप
    आसीत् - रा. अरिष्टनेमिरिति कश्यपविशेषणनू-गो
  2. विश्रुत - विकृत- ङ. ज.
  3. संश्रित-ड..
  4. विश्रुतः, नः श्रुतः - ङ.
  5. कश्यपः - ज
  6. अष्टावित्युपलक्षणम्, 'कश्यपाय त्रयोदश ' इत्यन्यत्रोक्तेः, वक्ष्यमाणसन्तानोपयोगिन्योऽष्टाविति वा-ति. यद्यपि ' कश्यपाय प्रयोदश' इति भागवतेनेदं विलुप्यते, तथापि वक्ष्यमाणवंशोपयोगिनीत्वेन अष्टावेवात्र विवक्षिता इति न तद्विरोध:-रा.
  7. 'एतदनन्तरं-'अङ्गिरास्त्वपरा राम कन्याः प्रत्यग्रहीत्तदा' इत्यधिकम्
  8. दनूमपि च - ङ.