पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
112
[अरण्यकाण्ड:
जटायुरसङ्गमः


अपत्यं तु मृगाः सर्वे मृग्याः, नरवरोत्तम !
ऋक्षाथ मृगमन्दायाः सृमराः चमरास्तथा ॥ २३ ॥
हर्याश्च हरयोऽपत्यं वानराश्च [१]तरस्विनः ।

 सृमरा:- (@FQufiLD760 ) | चमरा:- (FITLDIT LDIN Gix ) हरय:- सिंहाः ॥ २३ ॥

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ २४ ॥
तस्यास्त्वैरावतः पुत्रः लोकनाथो महागजः ।
मातङ्गास्त्वथ मातङ्गयाः अपत्यं मनुजर्षभ ! ॥ २५ ॥
गोलाङ्गूलांच शार्दूली व्याघ्रांचाजनयत् सुतान् ।
दिशागजांच, काकुत्स्थ ! श्वेताप्यजनयत् सुतान् ॥
गोला ङ्गूल:-(७=w) ॥ २६ ॥

ततो दुहितरौ, राम! सुरभिः द्वे व्यजायत ।
रोहिणीं नाम, भद्रं ते, गन्धवीं च यशस्विनीम् ॥ २७ ॥
रोहिण्यजनयत् [२] वै गन्धवीं वाजिनः सुतान् ।
सुरसाजनयन्नागान् [३] राम ! कद्रूस्तु पन्नगान् ॥ २८ ॥

 रोहिणी गाः अजनयत् । नागा:-निर्विषोरगविशेषाः । पन्नगा:- सर्पाः वासुक्यादयः ॥ २८ ॥

मनुर्मनुष्यान् जनयत्,[४] राम ! पुत्रान् यशस्विनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च, मनुजर्षभ । ॥२९॥



  1. तपस्विनः- ज.
  2. गाव:- ङ. ज.गा
  3. नागा:-बहुफणा: सर्पा:, पन्नगा:- केवलसर्पा:- गो. ती.
  4. काश्यपस्य महात्मन:-