पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
right
पञ्चवट्यां सुखावासं रामायाह मुनीश्वरः=103



 एषा दुष्करं कृतवतीत्येतत्प्रतिपादनशेषतया लोकव्यवहारोक्ति:- एषेत्यादि । आसृष्टेः सृष्टिमारभ्य। 'पञ्चम्यपाङ्परिभिः' इति पञ्चमी । समस्थं - घनधान्यादिमत्तया सम्यगवस्थितमित्यर्थः । विषमस्थः-दरिद्र इति यावत् । शतहृदानामित्यादिवचनं कैकेय्यभिप्रायेण [१]॥५-६॥

[२]इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
लाघ्या च व्यपदेश्या च यथा [३]देवी ह्यरुन्धती ॥ ७ ॥

 व्यपदेश्या-सद्भिः कीर्तनया ॥ ७ ॥

[४]अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह ।
वैदेह्या चानया, राम! वत्स्यसि त्वमरिन्दम ॥ ८ ॥

 यत्रेति । यत्रास्मिन् देशे इत्यर्थः । वत्स्यसि-वास करिष्यसि ॥ ८ ॥

एवमुक्तः स मुनिना राघवः संयताञ्जलिः ।
उवाच प्रश्रितं वाक्यं ऋषिं दीप्तमिवानलम् ॥ ९ ॥
धन्योऽस्म्यनुगृहीतोऽसि यस्य मे मुनिपुङ्गवः |
गुणैः सभ्रातृभार्यस्य [५] वरदः परितुष्यति ॥ १० ॥



  1. वस्तुतस्तु उत्सर्गोऽयम् । अत एवानन्तरलोके अपवाद: प्रदर्श्यते ।
  2. एवं सीतायाः प्रशंसनं वक्ष्यमाणदेवबन्दीमो चनोत्साहनाय-गो.
  3. देवेष्वरन्थती, देवीष्वरान्वती - ङ. ज.
  4. अयं देश:- आश्रम-प्रदेश:- गो. अयं देश: - मदाश्रमरूप: आगमनमात्रेणालङ्कृत: - यत्र देशे इतः परं परस्यसि सोऽध्यलङ्कृतो भविष्यतीति किं वक्तव्यमित्यर्थं:-ति. यत्र वैदेया सह निवत्स्यसि सोऽयं देशः अलङ्कृतो भविष्यतीति शेषः - रा. वस्तुतस्तु–‘अध्वश्रमेण मां खेदः' (२) ' किं तु व्यादिश मे देशं' (११) 'ध्यात्वा मुहूर्त धर्मात्मा' (१२) इत्यादि पूर्वापरपरामर्शे, अगस्त्यः स्वाश्रमे रामनिवासाभिप्रायेणैवेदमुक्तवानिति स्परसम् ।
  5. गुरुर्न:-ङ, ज.