पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
102
[अरण्यकाण्ड:
पञ्चवटीगमनम्



 अथ अगस्त्यनियोगेन पञ्चवढ्य श्रमप्राप्तिः । गमेत्यादि । लक्ष्मण ! तुभ्यं च परितुष्टोऽस्मीत्यन्वयः । स्थः इति अस्तलेटि मध्यमद्विवचनम् ॥ १ ॥

[१]अध्वश्रमेण वां खेदः बाधते प्रचुरश्रमः ।
व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥

 खेदः --दुःखं अध्वश्रमेण वां दुःखं वर्तते, प्रचुरश्रमः अध्त्रश्रमः, मैथिलीमिति शेषः । अत एव इयं व्यक्तं उत्कण्ठते चापि, क्वचित् विश्रान्तिमिति शेषः ॥ २ ॥

एषा हि सुकुमारी च दुःखैश्च न विमानिता ।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता || ३ ||

 न विमानितेति-न पीडितेति यावत् । प्राज्य: दोषः अस्मिन् तत् तथा । 'प्रभूतं प्रचुरं प्राज्यं" ॥ ३ ॥

यथैषा रमते, राम ! इह मीता तथा कुरु ।
दुष्करं कृतवत्येषा वने स्वामनुगच्छती ॥ ४ ॥
एषा हि प्रकृतिः स्त्रीणां आसृष्टेः, रघुनन्दन !
समस्थ [२]मनुरज्यन्ति विषमस्थं त्यजन्ति च ॥ ५॥
शतहदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरुडानिलयोः शैघ्रथं अनुगच्छन्ति योषितः || ६ ||



  1. अध्वश्रमेण - मार्गायासेन प्रचुर: श्रमः-श्रमजलं येन सः प्रचुरश्रमः खेद: बां
    बाधते-गो. अध्त्रश्रमेण खेदः वां बाधते किमिति शेषः । प्रचुरश्रमः, मैथिलीमिति शेषः-ती.
    वस्तुतस्तु लोकरीत्या आदरात् 'अध्यश्रमेण वां खेदः ! ‘प्रचुरश्रमः वां बाधते' इति
    वाक्यद्वयमिति युक्तम् ॥
  2. मनुरजन्ति-ङ,