पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३ सर्ग:]
101
रामाय वैष्णवं चापं तूणी चापि ददौ मुनिः


त्रयोदशः सर्गः

[पञ्चवटीगमनम् ]


राम ! प्रीतोऽस्मि, भद्रं ते, परितुष्टोऽस्मि, लक्ष्मण !
अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥



 एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात्- गो.

अशरण्य: शरण्योऽभूत् यथैव विनिवेशितः । तथाऽऽख्या तत्त्वेन परं कौतूहलं मम || श्रुत्वा तु वचनं तस्य रामस्य मधुराक्षरम् । प्रत्युवाच ततो राममगस्त्यो भगवानृषिः ॥ शृणु राघव ! तत्वेन देशस्यास्य यथातथम् । दण्डकेन परित्यको अयं देशो महात्मना ॥ भार्गवस्य च शापेन निर्मानुष्यमृगोऽभवत् ।वृक्षगुस्मलताहीनं तापसैरपि वर्जितम् ॥ कान्तारमभवत् तात ! घोरं परमदारुणम् ।योजनार्धसहस्रं तु विन्ध्यपादस्तु दक्षिण: ॥ नानुवर्षति पर्जन्य: नानुवाति सुखोऽनिलः |रक्षः (रूक्षं) प्रतिभयं घोरमासीत्परमदारुणम् ॥ बहून्यब्दसहस्राणि ह्येतदासीदमानुषम् । गन्धर्वैः ऋषिसश्च देवैश्च परिवर्जितम् || कस्यचित्त्वथ कालस्य दैवयोगादहं नृप ! हिमवच्छिखरात् श्वेतात् इह प्राप्तोऽस्मि मानद ! ततो मया समाहूतः पर्जन्यो जलदैः सह । स्वच्छन्दवर्षश्च कृतः कश्चित्कालमरिन्दम ! यमस्य चैव चारास्तु बहून्यब्दशतानि वै 1 • तेजमा मृत्युदूताश्च व्याधयश्च निराकृताः ॥ हिमवत्पादजा वृक्षाः चिन्तिता मनसाऽऽगताः । प्रवृत्ताश्च पुनर्नचः फुलपङ्कजमण्डिताः ॥ तढाकानि च रम्याणि सरितश्च सरांसि च। (नीरजस्कं सुगन्धं च सुखशीतजलानिलम्-झ.) प्रवृद्धवनषण्डं तु स्फीतसस्यवनाकुलम् ॥ अचिरेणाभवद्रम्यं सर्षिसङ्घ नुसेवितम् ॥ केवलं त्वमिशापेन तस्यैव रघुनन्दन ! सोपद्रुतमिवाप्येतत् राक्षसैरुग्रकर्मभिः ॥ पदाप्रभृति चापि त्वं चित्रकूटमुपागतः । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ भरपीणामभयं वीर ! दातुमर्हसि मानद ! अस्माद्धि कारणाद्राम ! दण्डकारण्यवासिनाम् ॥ जाणार्थमिह संग्राप्तः त्रातुमर्हति नो भवान्। समय खसि काकुत्स्थ ! त्रैलोक्यस्यापि रक्षणे ॥ कि पुनवीर ! रक्षांसि द्विज (तव)मन्युहतानि वै । अयमिक्ष्वाकुपुत्रेणदण्डकेन महाबल ! देशो निराकृतो राजन् ! शापदोषेण राघव ! दण्डकारण्यमखिलं दर्शनादेव राघव ! पस्यान्ताय काकुत्स्य ! प्राप्तस्त्वमरिमर्दन ! स त्वमथ पुरावृत्तैः पितृभिः सन्निराकृतम् । ( "स्य दोषादिदं राम ! दण्डकारण्यमुच्यते-झ.) आश्चर्यमिदमाख्यानं देशस्यास्य