पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
104
[अरण्यकाण्ड:
पञ्चवटी गमनम्



किं तु व्यादिश मे देशं मोदकं [१] बहुकाननम् ।
यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥

 किं तु व्यादिशेति । आम्मन् त्वदधिष्ठितदेशे वत्स्यामीत्येव, अथापि उदकादियौकर्ययुतदेशं मे व्यादिश ॥ ११ ॥

ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः ।
ध्यात्वा मुहूर्त धर्मात्मा [२] धीरो धीरतरं वचः ॥ १२ ॥

 ध्यात्वेति-वासोचित देशमित्यर्थः ।। १२ ।।

इतो द्वियोजने, तात! बहुमूलफलोदकः ।
देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः ॥ १३ ॥
[३]तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।
[४] झरस्यसे त्वं, पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४ ॥

 पञ्चानां वटानां समाहारः पञ्चवटी, तदुपलक्षितत्वात् पञ्चवटी- त्यभिविश्रुतः तथा ॥ १४ ॥



  1. अगस्त्या श्रमात् बहुदूरदेशः अपेक्ष्यते । अगस्त्याश्रमः खलु स्थलीप्रायवनोद्देशे आसीत् (11-38)। रक्षसां निर्मूलनस्य चिकीर्षितत्वेन, अगस्त्याश्रमप्रान्ते भयात् राक्षसैरनागमनेन,मनुष्यसञ्चाररहितं स्थानं विवक्षितम् । अत एव अगस्त्योऽपि ‘ध्यात्वा मुहूर्त' 'तपसंश्च प्रभावेन' इत्यादि वदति ॥
  2. ततोवाच वचश्शुभम् ङ.
  3. एतदनन्तरं-'वैदेश। चानया राम वत्स्यसि त्व-मरिंदम ' इत्यधिकं-ङ.
    .
  4. एतदनन्तरं- काल ऽयं गभूयिष्ठ: य: कालस्तत्र, राघव! समयो
    यो नरेन्द्रेण कृतो दशरथेन ते । तीर्णप्रतिज्ञः, काकुत्स्थ ! सुख राज्ये निवत्स्यसि ।
    धन्यस्ते जनको, राम ! स राजा, रघुनन्दन ! यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ॥
    इत्यधिकं-ड. अ.