पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:]
87
अगस्त्यभ्रातरं चैते मार्गमध्ये व्यलोकयन्



तस्यां राज्यां व्यतीतायां विमले सूर्यमण्डले ।
भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ॥ ७१ ।।
अभिवादये त्वा, भगवन् ! सुखमध्युषितो निशाम् ।
आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ ७२ ॥

 अभिवादये त्वां भगवन्निति । अभिवादये त्वा इति पदयोः अन्यथा प्रयोगासंभवात् अक्षराधिक्य पादस्य ॥ ७२ ।।

गम्यतामिति तेनोक्तः जगाम रघुनन्दनः ।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ ७३ ॥
नीवारान् पनसांस्तालान् वञ्चुलान् तिमिशान् धवान् ।
[१]. चिरिबिल्वान् मधूकांच [२] बिल्वानपि च तिन्दुकान् ॥७४॥

 नीवार:- जलकदम्बकः । निचुल:-वञ्चुलः अशोकः । तिमिश:- घवल: अर्जुनः। चिरिबिल्वः-नक्तमालः | तिन्दुका:- स्फूर्जकाः ॥

पुष्पितान् पुष्पिताग्राभिः लताभिरनुवेष्टितान् ।
ददर्श रामः शतशः तत्र कान्तारपादपान् ॥ ७५ ॥
हस्तिहस्तैः विमृदितान् वानरैरुपशोभितान् ।
मत्तैः शकुनिसङ्घैश्व [३] शतशव प्रणादितान् ॥ ७६ ॥

 विमृदितान्, मृदे: निष्ठा ।। ७६ ।।

ततोऽब्रवीत् समीपस्थं रामो राजीवलोचनः ।
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ।। ७७ ॥३



  1. चीरबिल्वान्-ड
  2. प्रकीर्यानपि किंतुकान्-ड
  3. शतश: प्रतिनादितान् ङ.