पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
86
[अरण्यकाण्ड:
आश्रममण्डलवासः



कुतो निष्क्रमितुं शक्तिः मया जीर्णस्य रक्षमः
भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ।। ६४ ।।

 मया जीर्णस्येति । भुक्तेति शेषः ।। ६४ ।।

अथ तस्य वचः श्रुत्वा भ्रातुः [१] निधन [२] संश्रयम् ।
प्रधर्पयितुमारेमे मुनिं क्रोधात् निशाचरः ॥ ६५ ।।

 प्रघर्षयितुं-हिंसितुम् ।। ६५ ।।

  [३].सोऽभिद्रवन्मुनिश्रेष्ठं, मुनिना दीप्ततेजसा ।
चक्षुष ऽनलकल्पेन निर्दग्धो निधनं गतः ॥ ६६ ॥

 चक्षुषा-चक्षुर्वीक्षणेन । अनलकल्पेन । कल्पप् प्रत्ययः । ६६ ।

तस्यायमाश्रमो भ्रातुः तटाकवनशोभितः ।
विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ।। ६७ ।।

 तटाकोरेतं वनम् ।। ६७ ।।

एवं कथयमानस्य तस्य सौमित्रिणा सह ।
रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत ॥ ६८ ॥

 तथा कथयमानस्येति । ‘णिचश्च' इत्यत्मनेपदम् ॥ ६८ ॥

उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ।
प्रविवेशाश्रमपदं तमृषि सोऽभ्यवादयत् ॥ ६९ ।।
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ।
न्यवसत् तो निशामेकां प्राइव मूलफलानि च ॥ ७० ॥



  1. निधनसंश्रयं वचः श्रुत्वा ।
  2. संश्रितम्-ङ. ज.
  3. सोडम्यद्रव-ङ. ज