पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्गः ]
85
वातापेर्निग्रहं तेन मुनिनाऽप्यब्रवीत्तदा



ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ।
भित्वा भिवा शरीराणि ब्राह्मणानां विनिष्पतत् ।। ५९ ।।

ब्राह्मणानां सहस्राणि [१] तैरेवं कामरूपिभिः ।
विनाशितानि [२] संहत्य नित्यशः पिशिताशनैः || ६० ।।

 मेषवत् नदन् इति । मृतसंजीविनीवैभवात् उदरान्तरिति शेषः । विनिष्पतत् इति । अडभावः आर्षः। विनिर्गत वानिति यावत् । संहत्य- समेत्य ।। ६० ।।

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ।
अनुभूय किल श्राद्धे भक्षितः स महासुरः ।। ६१ ॥

 देवैः प्रार्थितेन-प्रार्थितासुग्द्वयसंहारेण महर्षिणा अगस्त्येन, श्राद्धे - श्राद्धव्यापारमनुभूय भक्षितः, सः महासुरः- वातापिः ॥ ६१ ।।

तदा संपन्नमित्युक्ता दत्त्वा [३]. हस्तोदकं ततः ।
भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत ।। ६२ ।।

 तदा - श्राद्धान्ते, संपन्नमित्युक्ता ततः हस्तोदकं च दत्त्वा आतरं निष्क्रमम्वेत्यभाषत ।। ६२ ।।

स तं तथा भाषमाणं आतरं विप्रघातिनम् ।
अब्रवीत् प्रहसन् धीमान् अगस्त्यो मुनिसत्तमः । ६३ ।

 तमिति - इल्वलमित्यर्थः ।। ६३ ।।



  1. तेरिति बहुवचनं परिवारामिप्राय- गो.
  2. संहृत्य- ङ. ज.
  3. इस्ताव सेचनम्-ड. हस्ते ऽवनेजनम् - ङ. ज