पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
84
[अरण्यकाण्ड:
आश्रममण्डलवास:



निगृह्य [१].तरसा मृत्युं लोकानां हितकाम्यया ।
यस्य भ्रात्रा कृतेयं दिक् [२] शरण्या पुण्यकर्मणा ॥ ५४ ।।

 मृत्युं निगृह्य शरण्या कृता-शरणं- आवासः, तद्योग्या संपादि- तेत्यर्थः ॥ ५४ ॥

इहैकदा किल क्रूरः वातापिरपि चेल्वलः ।
भ्रातरौ सहितावास्तां ब्राह्मणौ महासुरौ ।। ५५ ।।

 कोऽसौ मृत्युः अगस्त्येन निगृहीतो लोकानुग्रहायेत्यतः सा आख्यायिकोच्यते-इहेत्यादि । वने इत्यर्थः । एकदेति कस्मिंश्चित् पूर्वस्मिन् काले इत्यर्थः । ब्राह्मणघ्नौ इति । 'अमनुष्य कर्तृके चेति' ठक् ॥ ५५ ॥

धारयन् ब्राह्मणं रूपं इल्वल: संस्कृतं वदन् ।
आमन्त्रयति विप्रान् स्म [३] श्राद्धमुद्दिश्य निर्घृणः ॥ ५६ ।।

 रूपं - वेषं, ब्राह्मणमिव - ब्राह्मण रूपमिव घारयन्- परिगृह्णन् । संस्कृतं वदनू, ब्रह्मगवदिति शेषः । उभयं विश्वासार्थम् ॥ ५६ ॥

भ्रातरं संस्कृतं [४] कृत्वा ततस्तं मेषरूपिणम् ।
तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५७ ॥

 संस्कृतं श्राद्धोचितपाकसंस्कार संस्कृतं कृत्वेत्यर्थः ॥ ५७ ॥

ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ।
वातापे ! निष्क्रमस्खेति खरेण महता वदन् । ५८ ।।



  1. सपसाङ
  2. शरण्या – संश्रयितुं योग्या-गो.
  3. श्राद्धकर्मणि- ङ.
  4. आता--ङ