पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
83
लक्ष्मणाय पथि प्राह रामोऽगस्त्यस्य वैभवम्



पिप्पलीनां च पक्कानां वनादसादुपागतः ।
गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ।। ४९ ॥

 अथ साधारणोपदिष्टलिङ्गं चानुभूयते इत्याह – पिप्पलीना- मित्यादि । पक्कानां पिप्पलीनामिति । तहकलानामित्यर्थः । कटुकोदय:- कटुकरसस्य उदय:- अभिव्यक्तिः आनुमानिकी येन स तथा तादृशो गन्धः समुपागतः ॥ ४९ ॥

 [१]तत्र त्रत च दृश्यन्ते संक्षिप्ताः काष्ठमञ्चयाः ।
लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥ ५० ॥

एतच्च वनमध्यस्थं कृष्णा भ्रशिखरोपमम् ।
पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ।। ५१ ।।

 कृष्णाअं - नीलाअं शिखरं - पर्वतशिखरं च उपमा यस्य स तथा ॥ ५१ ॥

 विविक्तेषु- पूतेषु, विविक्तेषु च
 [२]तीर्थेषु कृतस्नाना द्विजातयः |
 [३]</ref>पुष्पोपहारं कुर्वन्ति कुसुमैः समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरत्' इति
कारणात्- गो.</ref> स्वयमार्जितैः ॥ ५२ ॥

 विविक्तेषु-एकान्तेषु-निर्मलेषु चेत्यर्थः । स्वयमार्जितैरिति । देवं पूजयितुमिति शेषः ॥ ५२ ॥

तत् सुतीक्ष्णस्य वचनं यथा, सौम्य ! मया श्रुतम् ।
अगस्त्यस्याश्रमो भ्रातुः नूनमेष भविष्यति ।। ५३ ।।

 यथाश्रुतं तथैव तदुक्तलिङ्गानां अनुभवादिति शेषः ॥ ५३ ॥



  1. इदं मुनीनां समीपवासं सूचयति ।
  2. तीरेषु-ङ.
  3. पुण्योपदारं--ङ