पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
88
[ अरण्यकाण्ड:
आश्रममण्डलवांसः



 [१]स्निग्धपत्रा यथा वृक्षाः यथा शान्तमृगद्विजाः ।
आश्रमो नातिदूरस्थः महर्षेः भावितात्मनः ।। ७८ ।।

 यथा श्रुनाः, तथा स्निग्धपत्राः वृक्षाः दृश्यन्ते इति शेषः । तथा अग्रेऽपि योजना ॥ ७८ ॥


अगस्त्य इति विख्यातः लोके स्वेनैव कर्मणा ।
आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ।। ७९ ।।
 [२].प्राज्यधूमाकुलवनः चीरमालापरिष्कृतः ।
प्रशान्तमृगयूथश्च नानाशकुनिन। दितः ।। ८० ।।

 स्वेनैव कर्मणा अगस्त्य इति विख्यातः । अगं-विंध्यं स्तंभय- तीति, पृषोदरा देत्वेन स्तंभशब्दस्य स्त्यादेशे अगस्त्य इति प्रसिद्ध इत्यर्थः । परिश्रान्तानां श्रमं अपहन्तीति तथा, अपे क्लेशतमसोः इति क्लेशपर्यायेऽपि डः । प्राज्यैः-भूरिभिः धूमैः-यज्ञपाकयज्ञधूमैः आकुलं वनं यस्मिन् स तथा ॥ ८० ॥

 [३]निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।
दक्षिणा दिक् कृता येन शरण्या पुण्यकर्मणा ||।। ८१ ।।

  [४] ।निगृहोत्यादिः गतार्थः॥ ८१ ॥



  1. मनुष्यसञ्चारात भीतैर्वन्य गैरविमृदितत्वात् स्निग्धपत्राः
  2. आज्य-रु
  3. इदमर्ध कुण्डलितम्-ज.
  4. ५४ श्लोकेनेति बाबत्