पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

ततः शरैः शोणितमांसरूषितैयुगान्तवैश्वानरतुल्यविग्रहैः ।
निशाचराः संपरिवार्य माधवं वरायुधैर्निर्बिभिदुः सहस्रशः ॥६६॥


इत्याथे श्रीमनामावणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायो संहितायाम्

उत्तरकाण्डे विष्णुमाल्यवदादियुद्धं नाम षष्ठः सर्गः

सप्तमः सर्गः

मालिवधः

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः । ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥१॥
श्यामाक्दातम्तैर्विष्णुनीलैर्नक्तंचरोत्तमैः । वृतोऽञ्नगिरीवासीद्वर्षमाणैः पयोधरैः ॥२॥
शलभा इव केदारं मशका इव पावकम्'। यथामृतघटं दंशा मकरा इव चार्णवम् ॥३॥
तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः । हरिं विशन्ति स्म शरा लोका इव विपर्यये ॥४॥
स्यन्दनैः स्यन्दनगता गजैश्च गजपृष्ठगाः । अश्वारोहास्तथाश्वैश्च पादाताश्चाम्बरे स्थिताः ॥५॥
राक्षसेन्द्रा गिरिनिभाः शरैः शक्त्यृष्टितोमरैः । निरुच्छ्वासं हरिं चक्रु. प्राणायामा इव द्विजम्॥६॥
निशाचरैस्ताब्यमानो मीनैरिव महोदधिः । शार्ङ्गमायम्य दुर्धर्षो राक्षमेभ्योऽमृजच्छरान् ॥७॥
शरैः पूर्णायतोत्सृष्टैर्वज्रवक्तत्रैमनोजवैः । चिच्छेद विष्णुनिशितैः शतमोऽथ महस्रशः ॥८॥
विद्राव्य शरवर्षेण वर्ष वायुरिवोत्थितम् । पाञ्चजन्यं महाशङ्खं प्रदध्मौ पुरुषोत्तमः ॥९॥
सोऽम्बुजो हरिणाध्मातः सर्वप्राणेन शङ्खराट् । रराम भीमनिहादस्त्रैलोक्यं व्यथयन्निव ॥१०॥
शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् । मृगराज इवारण्ये समदानिव कुञ्जरान् ॥११॥
न शेकुरश्वाः संस्थातुं विमदाः कुञ्जरा भवन् । स्यन्दनेभ्यश्च्युता वीरा शङ्खरावितदुर्बलाः॥१२॥
शाझ्चापविनिर्मुक्ता वज्रतुल्याननाः शराः । विदार्य तानि रक्षांसि सुपुडा विविशुः क्षितिम् ॥१३॥
भिद्यमानाः शरैः संख्ये नारायणकरच्युतैः । निपेतू राक्षसा भूमौ शैला वाहता इव ॥ १४॥
व्रणानि परगात्रेभ्यो विष्णुचक्रकृतानि वै । अमृक् क्षरन्ति धाराभिः स्वर्णधारा इवाचलाः ॥
शङ्खराजरवश्वापि शार्ङ्गचापरवस्तथा । राक्षसानां खांश्चापि प्रसते वैष्णवो रवः ॥१६॥
तेषां शिरोधरान् धूताञ्शरध्वजधनूषि च । स्थान् पताकास्तूणीरांश्चेच्छेद स हरिः शरैः ॥१७॥
सूर्यादिव करा घोरा ऊर्मयः सागरादिव। पर्वतादिव नागेन्द्रा धारौषा इब चाम्बुदात् ॥ १८॥
तथा शार्ङ्गविनिर्मुक्ताः शरा नारायणेरिताः। निर्धावन्तीषवस्तूर्णं शतशोऽथ सहस्रशः॥ १९॥
शरमेण यथा सिंहाः सिंहेन द्विरदा यथा । द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा॥२०॥