पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९३९
सप्तमः सर्गः



द्वीपिनेव यथा श्वानः शुना मार्जारका यथा । मार्जारेण(रेण) यथा सर्पाः सर्पेण च यथाखवः॥२१
तथा ते राक्षसाः सर्वे विष्णुना प्रभविष्णुना । द्रवन्ति द्राविताश्चान्ये शायिताश्च महीतले॥२२॥
राक्षसानां सहस्राणि निहत्य मधुसूदनः । वारिजं पूरयामास तोयदं सुरराडिव ॥२३॥
नारायणशरत्रस्तं शङ्खनादसुविहलम् । ययौ लखामभिमुखं प्रभमं राक्षसं बलम्॥२४॥
प्रभग्ने राक्षसबले नारायणशराहते । सुमाली शरवर्षेण निववार रणे हरिम् ॥२५॥
स तु तं छादयामास नीहार इव भास्करम् । राक्षसाः सत्त्वसंपन्नाः पुनधैर्यं समादधुः॥२६॥
अथ सोऽभ्यपतद्रोषाद्राक्षसो बलदर्पितः । महानादं प्रकुर्वाणो राक्षसाञ्जीवयन्निव॥ २७॥
उत्क्षिप्य लम्बाभरणं धुन्वन् करमिव द्विपः । ररास राक्षसो हर्षात् सतडित्तोयदो यथा॥ २८॥
सुमालेनर्दतस्तस्य शिरो ज्वलितकुण्डलम् । चिच्छेद यन्तुरश्वाश्च प्रान्तास्तस्य तु रक्षसः॥ २९॥
तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः । इन्द्रियाश्रैः परिभ्रान्तैर्धृतिहीनो यथा नरः॥३०॥
ततो विष्णुं महाबाहुं प्रापतन्तं रणाजिरे । हृते सुमालेरश्वैश्च रथे विष्णुरथं प्रति॥३१॥
माली चाभ्यद्रवद्युक्तः प्रगृह्य सशरं धनुः । मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः॥ ३२॥
विविशुह रिमासाद्य क्रौञ्चं पत्ररथा इव । अर्धमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः॥३३॥
चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः । अथ मौर्वीस्वनं श्रुत्वा भगवान् भूतभावनः॥३४॥
मालिनं प्रति बाणौघान् ससर्जारिनिषूदनः । ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः॥३५॥
पिबन्ति रुधिरं तस्य नागा इव सुधारसम् । मालिनं विमुखं कृत्वा शङ्खचक्रगदाधरः॥३६॥
मालिमौलिं ध्वजं चापं वाजिनश्चाप्यपातयत् । विरथस्तु गदां गृह्य माली नक्तंचरोत्तमः॥३७॥
आपुप्लुवे गदापाणिगिर्यग्रादिव केसरी । गदया गरुडेशानमीशानमिव चान्तकः॥३८॥
ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् । गदयाभिहतस्तेन मालिना गरुडो भृशम्॥३९॥
रणात् पराङ्मुखं देवं कृतवान् वेदनातुरः । पराङ्मुखे कृते देवे मालिना गरुडेन वै॥४०॥
उदतिष्ठन्महाञ्शब्दो रक्षसामभिनर्दताम् । रक्षसां रवतां रावं श्रुत्वा हरिहयानुजः॥४१॥
तिर्यगास्थाय संक्रुद्धः पक्षीशे भगवान् हरिः । पराङ्मुखोऽप्युत्ससर्ज मालेश्चक्रं जिघांसया॥४२॥
तत् सूर्यमण्डलाभासं स्वभासा भासयन्नभः । कालचक्रनिभं चक्रं मालेः शीर्षमपातयत्॥ ४३॥
तच्छिरो राक्षसेन्द्रस्य चक्रकृवं विभीषणम् । पपात रुधिरोद्गारि पुरा राहुशिरो यथा॥४४॥
ततः सुरैः सुसंहष्टैः सर्वप्राणसमीरितः । सिंहनादरवोन्मुक्तः साधु देवेति वादिभिः॥४५॥
मालिनं निहतं दृष्ट्वा सुमाली माल्यवानपि । सबलो शोकसंतप्तौ लकामेव प्रधावितौ॥४६॥
गरुडस्तु समाश्वस्तः संनिवृत्य यथा पुरा । राक्षसान् द्रावयामास पक्षवातेन कोपितः॥ ४७॥