पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥


॥श्रीमद्वाल्मीकिरामायणम् ॥

॥ अथ उत्तरकाण्डः ॥

प्रथमः सर्गः

रामप्रश्नः

प्राप्तराज्यस्य रामस्य राक्षसानां वधे कृते । आजग्मुर्मुनयः सेवं राघवं प्रतिनन्दितुम् ॥ १ ॥
कौशिकोऽथ यवक्रीतो गार्ग्यो गायोलव एव च। कण्वो मेधातिथेः पुत्रः पूर्वस्यां दिशि ये श्रिताः ॥ २ ॥
स्स्वस्त्यारेयोऽथ भगवान्नमुचिः प्रमुचिस्तथा । अगस्त्यऽत्रिश्च भगवान् सुमुखो विमुखस्तथा ॥ ३ ॥
आजग्मुम्ते सहागस्त्या ये श्रिता दक्षिणां दिशम् । नृषङ्गुः कवषो धौम्यो रौद्रेयश्च महानृषि :॥ ४ ॥
तेऽप्याजग्मुः स शिष्या वै ये श्रिताः पश्चिमां दिशम् । वसिष्ठःकाश्यपोऽथात्रिर्विश्वामित्रःसगौतमः ॥ ५ ॥
जमदग्निर्भरद्वाजस्तेऽपि सप्तर्पयस्तथा । उदीच्यां दिशि सप्तैते नित्यमेव निवासिनः ॥ ६ ॥
संप्राप्य ते महात्मानो राघवस्य निवेशनम् । विष्ठिताः प्रतिहारार्थं हुताशनसमप्रभाः ॥ ७ ॥
वेदवेदाङ्गविदुषो नानाशास्त्रविशारदाः । द्वा:स्थं प्रोवाच धर्मात्मा ह्यगस्त्यो मुनिसत्तमः ॥ ८ ॥
निवेद्यतां दाशरथेर्ॠषीनस्मान् समागतान् । प्रतीहारस्ततस्तूर्णमगस्त्यवचनाद्द्रुतम् ॥ ९ ॥
समीपं राघवस्याशु प्रविवेश महात्मनः । नयेङ्गितज्ञः सद्वृत्तो दक्षो धैर्यसमन्वितः ॥ १० ॥
स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम् । अगस्त्यां कथयामास संप्राप्तमृषिभिः सह ॥ ११ ॥
श्रुत्वा प्राप्तान् मुनीस्तांस्तु बालसूर्यसमप्रभान् । प्रत्युवाच ततो द्वाःस्थं प्रवेशय यथासुखम् ॥ १२ ॥
तान् संप्राप्तान् मुनीन् दृष्ट्वा प्रत्युत्थाय कृताञ्जलिः। पाद्यार्थ्यादिभिरानर्क्य गां निवेद्य च सादरम् ॥ १३ ॥
रामोऽभिवाद्य प्रयत आसनान्यादिदेश ह । तेषु काञ्चनचित्रेषु स्वास्तीर्णेषु सुखेषु च ॥ १४ ॥
कुशान्तर्धानद तेषु मृगचर्मयुतेषु च । यथार्हमुपविष्टास्ते आसनेष्वृषिपुङ्गवाः ॥ १५ ॥
रामेण कुशलं पृष्टाः सशिष्याः सपुरोगमाः । महर्षयो वेदविदो रामं वचनमब्रुवन् ॥ १६ ॥
कुशलं नो महाबाहो सर्वत्र रघुनन्दन । त्वां तु दिष्ट्या कुशलिनं पश्यामो हतशात्रवम् ॥ १७ ॥
दिष्टया त्वया हतो राजन् रावणो लोकरावणः । न हि भारः स ते राम रावणः पुत्रपौत्रवान् ॥ १८ ॥
सधनुस्त्वं हि लोकांस्त्रीन् विजयेथा न संशयः। दिष्टया त्वया हतो राम रावणो राक्षसेश्वरः ॥ १९ ॥
दिष्ट्या विजयिनं त्वाद्य पश्यामः सह सीतया । लक्ष्मणेन च धर्मात्मन् भ्रात्रा त्वद्धितकारिणा ॥ २० ॥