पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे एकत्रिंशदुत्तरशततमः सर्गः


प्रीयते सततं रामः स हि विष्णुः सनातनः । आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ॥ ११९ ॥
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते॥

  कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च ।
  श्रुत्वा शुभं काव्यमिदं महार्थं प्राभोति सर्वां भुवि चार्थसिद्धिम् ॥ ९२० ॥

  आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च ।
  श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ ९२१ ॥

एवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः । प्रन्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२२ ॥

देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा । रामायणस्य श्रवणात्तुप्यन्ति पितरस्तथा ॥ १२३ ॥

भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् । लेखयन्तीह च नराम्तेषां वासस्त्रिविष्टपे ॥ १२४ ॥



इत्याrर्थे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम

युद्धकाण्डे श्रीरामपट्टाभिषेको नाम एकत्रिंशदुत्तरशततमः सर्ग;

इति श्रीमद्वाल्मीकिरामायणे युद्धकाण्डः संपूर्णः