पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२८
श्रीमद्वाल्मीकीरामायणे उत्तरकाण्डे


मातृभिर्मातृसहितं पश्यामोऽद्य वयं नृप । दिष्ट्या प्रहस्तो विकटो विरूपाक्षो महोदरः ॥ २१ ॥
अकम्पनश्च दुर्धैर्षो निहतास्ते निशाचराः । यस्य 'प्रमाणाद्विपुलं प्रमाणं नेह विद्यते ॥ २२ ॥
दिष्ट्या ते समरे राम कुम्भकर्णो निपातितः । त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥ २३ ॥
दिष्ट्या ते निहता राम महावीर्या निशाचराः। कुंभश्चैव निकुंभश्च राक्षसौ भीमदर्शनौ ॥ २४ ॥
दिष्ट्या तौ निहतौ राम कुम्भकर्णसुतौ मृधे। युद्धोन्मत्तश्च मत्तश्च कालान्तकयमोपमौ ॥ २५ ॥
यज्ञकोपश्च बलवान् धूम्राक्षो नाम राक्षसः । कुर्वन्तः कदनं घोरमेते शस्त्रास्त्रपारगाः॥ २६ ॥
अन्तकप्रतिमैर्बाणैर्दिष्ट्या विनिहतास्त्वया । दिष्ट्या त्वं राक्षसेन्द्रेण द्वन्द्वयुद्धमुपागतः ॥ २७ ॥
देवतानामवध्येन विजय प्राप्तवानसि । संख्ये तस्य न किंचितु रावणस्य पराभवः ॥ २८ ॥
द्वन्द्वयुद्धमनुप्राप्तो दिष्ट्या ते रावणिर्हतः । दिष्ट्या तस्य महाबाहो कालस्येवाभिधावतः ॥ २९ ॥
मुक्तः सुररिपोर्वीर प्राप्तश्च विजयस्त्वया । अभिनन्दाम ते सर्वे संश्रुत्येन्द्रजितो वधम् ॥ ३० ॥
सोऽवध्यः सर्वभूतानां महामायाधरो युधि। विस्मयस्त्वेष चास्माकं तच्छ्रुत्वेन्द्रजितं हतम् ॥ ३१ ॥
एते चान्ये च बहवो राक्षसाः कामरूपिणः । दिष्ट्या त्वया हता वीरा रघूणां कुलवर्धन ॥ ३२ ॥
दत्त्वा पुण्यामिमां वीर सौम्यामभयदक्षिणाम् । दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन ॥ ३३ ॥
श्रुत्वा तु तेषां वचनमृषीणां भावितात्मनाम् । विस्मयं परमं गत्वा गमः प्राञ्जलिरब्रवीत् ॥ ३४ ॥
भगवन्तः कुम्भकर्ण रावणं च निशाचरम् । अतिक्रम्य महावीर्यों किं प्रशंसथ रावणिम् ॥ ३५ ॥
महोदरं प्रहम्तं च विरूपाक्षं च राक्षसम् । मत्तोन्मत्तौ च दुर्धर्षों देवान्तकनरान्तकौ ॥ ३६ ॥
अतिक्रम्य महावीर्यान् किं प्रशंसथ रावणिम् । अतिकायं त्रिशिरसं धूम्राक्षं च निशाचरम् ॥ ३७ ॥
अतिक्रम्प महावीर्यान् किं प्रशंसथ रावणिम्। कीदृशो वै प्रभावोऽस्य किं बलं कः पराक्रमः ॥ ३८ ॥
केन वा कारणेनैष रावणादतिरिच्यते । शक्यं यदि मया श्रोतुं न खल्वाज्ञापयामि वः ॥ ३९ ॥
यदि गुह्यं न चेद्वक्तुं श्रोतुमिच्छामि कथ्यताम् । शक्रोऽपि विजितस्तेन कथं लब्धवरश्च सः ॥ ४०॥
कथं च बलवान् पुत्रो न पिता तस्य रावणः ॥
  कथं पितुश्चाभ्यधिको महाहवे शक्रम्य जेता हि कथं स राक्षसः ।
  वराश्च लब्धाः कथयस्व मेऽद्य तत् पृच्छतश्चास्य मुनीन्द्र सर्वम् ॥ ४१ ॥



इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायाम्

उत्तरकाण्डे रामप्रश्नो नाम प्रथम: सर्ग: ॥