पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविंशत्युत्तरशततमः सर्गः
९०७
स तथेति महाराजो राममुक्त्वा कृताञ्जलिम् । लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥ २६
राम शुश्रूषता भक्त्या वैदेया सह सीतया । कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ २७
धर्म प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि । रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥ २८
राम शुश्रूष भद्रं ते सुमित्रानन्दवर्धन । रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥
एते सेन्द्रास्लयो लोकाः सिद्धाश्च परमर्षयः । अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥ ३०
एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मसमितम् । देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ||
अवाप्तं धर्मचरणं यशश्च विपुलं त्वया । रामं शुश्रूषता भक्त्या वैदेया सह सीतया || ३२
स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् । उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ||
कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति । रामेण त्वद्विशुद्धयर्थं कृतमेतद्धितैषिणा ||
न त्वं सुश्रु समाधेया पनिशुश्रूषणं प्रति । अवश्यं तु मया वाच्यमेष ते दैवतं परम् || ३५
इति प्रतिसमादिश्य पुत्रौ सीतां तथा मनुषाम् । इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ||
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनिकायां संहितायाम्
युद्धकाण्डे दशरथप्रति समादेशो नाम द्वाविंशत्युत्तरशततमः सर्गः
त्रयोविंशत्युत्तरशततमः सर्गः
इन्द्रवरदानम्

1

प्रतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः | अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ १
अमोषं दर्शनं राम तवास्माकं परंतप | प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ।।
एवमुक्तम्तु काकुत्स्थ: प्रत्युवाच कृताञ्जलिः | लक्ष्मणेन सह मात्रा सीतया सह भार्यया ॥ ३
यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर | वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ५
मस्कृते विप्रयुक्ता ये पुत्रैदरिश्च वानराः' / मत्प्रियेष्वमियुक्ताश्च न मृत्युं गणयन्ति च ॥ ६
त्वत्प्रसादात् समेयुस्ते वरमेतमहं वृणे | नीरुजो निर्वणांश्चैव संपन्नबलपौरुषान् ॥
गोलाङ्गूलांस्तथैवर्क्षान् द्रष्टुमिच्छामि मानद । अकाले चापि पुष्पाणि मूलानि च फलानि च ॥
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः । श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ॥
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् । महानयं वरस्तात त्वयोक्तो रघुनन्दन ॥

Q
अस्थानन्तरम् - तान् प्रीतमनसः सर्वान् मृत्युं गणयन्ति ये ॥ कृतयला विपनाञ्च जीनेयुस्ते
इष्टुमिच्छामि मानद | विकान्ताश्चापि शूराश्च न सुरर्षभ - इति क. प.