पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
द्वाविंशत्युसरशततमः सर्गः
दशरथप्रतिसमादेश:




९.
एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् । इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥
पुष्कराक्ष महाबाहो महाबक्षः परन्तप । दिष्ट्याकृतमिदं कर्म त्वया शस्त्रभृतां वर ||
दिष्टया सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः । अपावृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ३
आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् । कैकेयी च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥
प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् । इक्ष्वाकृणां कुले वंश स्थापयित्वा महाबल ॥ ५
इष्ट्वा तुरगमेधन प्राप्य चानुत्तमं यशः । ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥
एष राजा विमानस्थ: पिता दशरथस्तव | काकुत्स्थ मानुषे लोके गुरुस्तव महायशा ॥
इन्द्रलोकं गतः श्रीमांम्वया पुत्रेण नारितः | लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ||
महादेववचः श्रुत्वा काकुत्स्थ: सहलक्ष्मण: । विमान शिस्वरम्थस्य प्रणाममकरोत् पितु ।।
दीप्यमानं स्वया लक्ष्म्या विरजोऽम्बरधारिणम् । लक्ष्मणेन मह जात्रा ददर्श पितरं विभुः ॥
हर्षेण महताविष्टो विमानस्थो महीपतिः । प्राणैः प्रियनरं दृष्ट्वा पुत्रं दशरथन्तदा ॥ ११
अरोप्याकं महाबाहुर्वरासनगतः प्रभुः । बाहुभ्यां संपरिष्वज्य ततो वावगं समाददे || १२
न मे स्वर्गो बहुमतः संमानश्च सुरभिः । त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ १३
कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर । तव प्रत्राजनार्थानि स्थितानि हृदये मम ||
त्वां तु दृष्ट्वा कुशलिनं परिध्वज्य मलक्ष्मणम् । अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्कर ||
तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना । अष्टावक्रेण धर्मात्मा कहोलो ब्राह्मणो यथा ॥१६
इडानी तु विजानामि यथा सौम्य सुरधरैः । वधार्थ रावणम्येदं विहितं पुरुषोत्तम || १७
सिद्धार्था खन्नु कौसल्या या त्वां राम गृहं गतम् | वनान्निवृत्तं संहृष्टा द्रक्ष्यत्यरिनिषुदन ॥ १८
सिद्धार्था खन्यु ते राम नरा ये त्वां पुरा गतम् । जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ||
अनुरक्तेन बलिना शुचिना धर्मचारिणा । इच्छामि त्वामहं द्रष्टुं भरतेन समागतम् ||
चतुर्दश समाः सौम्य बने निर्यापितास्त्वया । बसता सीतया सार्धं लक्ष्मणेन च धीमता ॥
निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता । रावणं च रणे हत्वा देवास्ते परितोषिताः ॥ २२
कृतं कर्म यशः लाध्यं प्राप्तं तं शत्रुसूदन । भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥ २३
इति ब्रुवाणं राजानं रामः प्राञ्जलिरत्रवीत् । कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ||
सपुत्रां त्वां त्यजामीति यदुक्का कैकयी त्वया । स शाप: कैकयी घोरः सपुत्रां न स्पृशेत प्रभो ॥

२०
१. तारितः च छ ।