पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे
१४
१७
१८
अब्रवीत्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥ ११
योऽहं यस्य यतश्चाहं भगवांस्तवतु मे । इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ॥ १२
अन्नवीच्छृणु मे राम सत्यं सत्यपारक्रम | मवान्नारायणो देवः श्रीमांश्चक्रायुषो विभुः ॥ १३
एक शृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ॥
लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥ १५
अजितः खड्गधृद्विष्णुः कृष्णश्चैव बृहद्वलः । सेनानीग्रमणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।।
प्रभवश्वाप्ययश्च त्वमुपेन्द्रो मधुसूदनः | इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ॥
शरण्यं शरणं च त्वामाहुर्दिव्या मर्ययः | सहस्रशृङ्गो वेदात्मा शतजिह्वा महर्षभः ॥
त्वं त्रयाणां हि लोकानामा दिकर्ता स्वयंप्रभुः । सिद्धानामपि साध्यानामाश्रयश्चामि पूर्वजः ||
त्वं यज्ञम्त्वं वषट्कारम्त्वमांकारः परन्तवः | प्रभवं निधनं वा ते न विदुः को मवानिति ॥२०
दृश्यमे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वामु गगने पर्वतेषु वनेषु च ॥
सहस्रचरण: श्रीमायतशीर्षः सदृक् | त्वं धाग्यम भूतानि वसुधां च सपर्वनाम् ॥ २२
अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोग्ग । त्रील्लोकान् धाग्यन् गम देवगन्धर्वदानवान ||
अहं ते हृदयं राम जिह्वा देवी सरम्बनी। देवा गात्रेषु रोगाणि निर्मिता ब्रह्मणा प्रभो ॥ २४
निमेषम्ते भवेद्रात्रिरुन्मेषम्ते भवेद्दिया | संम्कागम्तेऽभवन् वेदा न तदम्ति त्वया विना ॥२५
जगत् सर्व शरीरं ने स्थैर्य ते वाम् | अमिः कोपः प्रमादस्ते सोनः श्रीवत्सलक्षण||२६
त्वया लोकास्बय क्रान्ताः पुरा स्वैर्यिक्रमैत्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्धा महासुरम ||
सीता लक्ष्मीर्मवान् विष्णुर्देवः कृष्ण प्रजापति | बधार्थ गवण येट प्रविष्टो मानुषी तनुम् ॥
नदिदं न कृतं कार्य त्वा धर्मभृतांवर निःतो रावणी गम प्रहृष्टी दिवमाक्रम ||
अमोघं बलवीर्य ते अमोधस्ते पराक्रम । अमोघं दर्शनं राम न च मोघ नवम्तव ||
अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नगः। ये त्वां देवं ध्रुवं भक्ता, पुराणं पुरुषोत्तमम् ||३१
प्राप्नुवन्ति सदा कामानिह लोके पत्र च । इसमार्प स्तवं नित्यमितिहासं पुराननम् ॥ ३२
ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः ॥
९०४
इत्यावें श्रीमदामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहक्षिकायां संहितायाम्
युद्धकाण्डे ब्रह्मकृतरामस्तो नाम विंशतरशततमः सर्ग:
एकविंशत्युत्तरशततमः सर्गः
सीताप्रतिग्रह
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् | अहेनादाय वैदेहीमुत्पपान विभावसुः || १
वि. छ.।
9.