पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विंशत्युत्तरशततमः सर्गः
२९
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २३
यथा मे हृदयं नित्यं नापसर्पति राघवात् । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ २६
आदित्यो भगवान् वायुर्दिशश्चन्द्रस्तथैव च । अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ॥
यथान्येऽषि विजानन्ति तथा चारित्रसंयुताम् । एवमुक्ता तु बँदेही परिक्रम्य हुताशनम् ॥ २८
विवेश ज्वलन दीप्तं निःसङ्गेनान्तगत्मना । जनः स सुमहांस्तो बालवृद्धसमाकुलः ॥
ददर्श मैथिली तत्र प्रविशन्तीं हुताशनम् । सा तप्तनवहेमामा तप्तकाञ्चनभूषणा ||
पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ । ददृशुम्तां महाभागां प्रविशन्तीं हुताशनम् ॥ ३१
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव । प्रचुकुशु स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।
पतन्ती संस्कृतां मन्त्रैर्वसीर्घारामिवाध्वरे | ददृशुम्तां त्रयो लोका देवगन्धर्वदानवाः ॥
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव । तम्याममिं विशन्त्यां तु हा हेति विपुलः स्वनः ||३४
रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥
३३
इत्यार्षे श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्ध काण्डे हुताशनप्रवेशो नाम एकोनविंशत्युत्तरशततमः सर्गः
विंशत्युत्तरशततमः सर्गः
ब्रह्मकृनगमस्तवः


ततो हि दुर्मना रामः श्रुत्वैव वदतां गिरः । दध्यौ मुहूर्त धर्मात्मा बाप्पव्याकुललोचनः ॥ १
ततो वैश्रवणो राजा यमश्यामित्रकर्शनः | सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ।।
षडर्धनयनः श्रीमान् महादेवो वृपध्वजः । कर्ता सर्वस्य लोकम्य ब्रह्मा ब्रह्मविदां वरः ॥
ते सर्वे समागम्य विमानैः सूर्यसंनिभैः । आगम्य नगरी लङ्कामभिजम्मुश्च राघवम् ॥
ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान्| अनुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् || ५
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः । उपेक्षसे कथं सीतां पतन्ती हव्यवाहने || ६
कथं देवगण श्रेष्ठमात्मानं नावबुध्यसे । ऋतधामा वसुः पूर्व वसूनां त्वं प्रजापतिः ॥
त्रयाणां त्वं हि लोकनामादिकर्ता स्वयंप्रभु | रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ॥ ८
अश्विनौ चापि ते कर्णौ चन्द्रसूर्योच चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ||
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैम्तैः स्वामी लोकस्य राघवः ॥ १०
1. ऋषना गन्धर्ना यज्ञे पूर्णाहुली मिन गो. ।