पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे
मुमोच बाष्पं सुभृशं प्रवेपिता गजेन्द्रहस्ताभिह्तेव सड़की ।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसह निकायां संहितायाम्
युद्धकाण्डे सीताप्रत्यादेशो नाम अष्टादशोत्तरशततमः सर्गः
२५
एकोनविंशत्युत्तरशततमः सर्गः
हुताशनप्रवेशः
तु




एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिताभवत् ।।
सा तदश्रुतपूर्व हि जने महति मैथिली । श्रुत्वा भर्तृवचो रूक्षं लज्जया ब्रीडिताभवत् ॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा | वाक्याल्यैस्तैः सशल्येव भृशमश्रण्यवर्तयत् ॥ ३
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती म्वमाननम् । शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ||
कि मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् । रूक्षं श्रावयमे वीर प्राकृतः प्राकृतामिव ||
न तथास्मि महाबाहो यथा त्वमवगच्छसि । प्रत्ययं गच्छ में येन चारित्रणव ते शपे ||
पृथक्स्त्रीणां प्रचारेण जानिँ तां परिशङ्कसे । परित्यजेनां शक्कां तु यदि तेऽहं परीक्षिता ||
यद्यहं गात्रसंस्पर्श गतास्मि विवशा प्रभो । कामकारो न मे नत्र दैवं तत्रापराध्यति ॥
मदधीनं तु यतन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥
सह संवृद्धभावाच संसर्गेण च मानद । यद्यहं तं न विज्ञाता हता तेनास्मि शाश्वतम् ॥ १०
प्रेषितम्ते यदा वीरो हनुमानवलोकक: | लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ॥ ११
प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् | त्वया संत्यक्तया वीर त्यक्तं म्याज्जीवितं मया ॥ १२
न वृथा ते श्रमोऽयं स्यात्संशये न्यम्य जीविनम् | सुहृज्जनपरिकेशी न चायं निष्फलस्तव ॥ १३
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ||
अपदेशेन जनकान्नोत्पत्तिर्वसुधातात् । मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥ १५
न प्रमाणीकृतः पाणिवल्ये बालेन पीडितः । मम भक्तिश्च शीलं च सर्व ते पृष्ठतः कृतम् ॥ १६
एवं बुवाणा रुदती बाप्पगद्गदभाषिणी | अब्रवीलक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७
चितां मे कुरु सौमित्रे व्यसनम्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुत्सहे ॥
अमीतस्य गुणैर्भर्तुम्त्यक्ताया जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥
एवमुक्तस्तु वैदेच्या लक्ष्मणः परवीरहा | अमर्षवशमापन्नो राघवाननमैक्षत |
स विज्ञाय ततश्छन्दं रामम्याकारसूचितम् । चितां चकार सौमित्रिर्मते रामस्य वीर्यवान्
अधोमुम्वं तदा रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥
१८
१९
द्रष्टुं वाध्यशकत मुहृत् ॥इति रा.
१. अस्यानन्तरम् - न हि रामं तदा
कश्चित् कालान्तकrnोपमम् । अनुनेतुमथो वक्तुं
२०
॥ २१
२२