पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोत्तरशततमः सर्गः
पूर्णचन्द्राननं रामं द्रक्ष्यस्यायें सलक्ष्मणम् । स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥
तामेवमुक्ता राजन्तीं सीतां साक्षादिव श्रियम् । आजगाम महावेगो हनुमान् यत्र राघवः ५१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिमहशिकायां संहितायाम्
युद्धकाण्डे मैथिली प्रिय निवेदनं नाम षोडशोत्तरशततमः सर्गः
सप्तदशोत्तरशततमः सर्गः
सीताभर्तृमुखोदीक्षणम्




२.
स उवाच महाप्राज्ञम भिगम्य प्लवङ्गमः | रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥
यन्निमित्तोऽयमारम्भः कर्मणां च फलोचयः । तां देवी शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥
सा हि शोकसमाबिष्टा बाप्पपर्याकुलक्षणा । मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥ ३
पूर्वकात् प्रत्ययाच्वाहमुक्तो विश्वस्तया तया । भर्तारं द्रष्टुमिच्छामि कृतार्थे सहलक्ष्मणम् ॥
एवमुक्तो हनुमना रामो धर्मभृतां वरः । अगच्छत् सहसा ध्यानमीपहाष्पपरिप्लुतः ॥
दीर्घमुष्णं विनिश्वम्य मेदिनीमवलोकयन् | उवाच मेघसंकाशं विभीषणमुपस्थितम् ||
दिव्याङ्गरागां वैदेही दिव्याभरणभूषिताम् । इह सीतां शिर खातामुपस्थापय मा चिरम् ॥ ७
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्त पुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥८
दिव्याङ्गरागा वैदेही दित्र्याभग्णभूषिता । यानमारो भद्रं ते मर्ता त्वां द्रष्टुमिच्छति ||
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् । अस्नाना द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ १०
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः । यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥
तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता । मर्तृभक्तिजना साध्वी तथेति प्रत्यभाषत ।
ततः सीनां शिर स्नानां युवतीभिरलङ्कृताम् | महामरणोपेतां महार्हाम्बरधारिणीम् ॥ १३
आरोप्य शिबिकां दीप्तां पराम्बवृताम् | रक्षोमिहुभिर्गुप्तामाजहार विभीषणः ॥
सोऽभिगम्य महात्मानं ज्ञात्वापि ध्यानमास्थितम् । प्रणनश्च प्रहृष्टश्च प्राप्तां सीनां न्यवेदयत् ॥
तामागतामुपश्रुत्य रक्षोगृचिरोषिताम् । हर्षो दैन्यं च रोपश्च त्र्यं राघवमाविशत् ॥
ततः पार्श्वगतं दृष्ट्वा सविमर्श विचारयन् । विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ||
राक्षसाधिपते सौम्य नित्यं मद्विजये रत । वैदेही सन्निकर्ष मे शोघ्रं समुपगच्छतु ॥
१२
१. अस्थानन्तरम्-स्थाने सीतां शिर: आतां
गन्धाभरणभूषिताम् । सर्वमङ्गल संयुक्ता मित्याज्ञःप्य
महाबल: ॥ ततस्ताभिः प्रसनाभी राक्षसीभिरभि
त्वरन् । तत्र सीतां महाभागां दृष्ट्रोवाच विभीषणः ॥
मूर्ध्नि बद्धाललि, श्रीमान् बिनीतो राक्षसाधिपः ।
इति क. ध ।