पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे
३२
हतशत्रुं बिजयिनं रामं पश्यामि सुस्थिनम् । तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ॥ २५
ततः शुभतरं वाक्यमुवाच पवनात्मजम् | अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ॥ २६
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् । श्लाघनीयोऽनिलम्य त्वं पुत्रः परमधार्मिकः ||
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् | तेजः क्षमा धृतिधैर्य विनीतत्वं न संशयः ॥ २८
एते चान्ये च बहवो गुणाम्त्वय्येव शोभनाः । अथोवाच पुनः सीतामसंभ्रान्तो विनीतवत् ||
प्रगृहीताञ्जलिईर्षात् सीतायाः प्रमुखे स्थितः । इमान्तु खलु राक्षम्यो यदि त्वमनुमन्यसे ॥३०
हन्तुमिच्छाम्यहं सर्वा या भिम्त्वं तर्जिता पुरा । क्लिश्यन्ती पतिदेवां त्वामशोकवनिकां गताम् ||
घोररूपसमाचाराः क्रूगः क्रूग्तरेक्षणाः । राक्षम्यो दारुणकथा वग्मेनत् प्रयच्छ मे ||
मुष्टिभिः पाणिभिः सर्वाश्चग्णैश्चैव शोभने । इच्छामि विविधैधर्हिन्तुमेताः सुदारुणाः ॥ ३३
घातैर्जानुप्रहारैश्च दशनानां च पातनैः । भक्षण कर्णनामानां केशानां तुञ्चनैस्तथा ॥
भृशं गुप्कमुग्वीभिश्च दाणेहतैः । निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ ३५
एवंप्रकारैर्बहुभिर्विप्रकारैर्यशम्बिनि । हन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ||
एवमुक्ता हनुमना वैदेही जनकात्मजा । उवाच धर्मसहितं हनुमन्तं यशस्विनी ||
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया । विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥
भाग्यवैषम्ययोगेन पुरा दुश्चरितेन च । मयैतत् प्राप्यते सर्व स्वकृतं पभुज्यते ||
प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । दासीनां रावणम्याहं मर्षयामीह दुर्बला || ४०
आज्ञप्ता रावणेनैना राक्षम्यो मामतर्जयन् । हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥
अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः । ऋशेण गीत: श्लोकों मे तन्निबोध प्लवङ्गम |
न परः पापमादते परषां पापकर्मणाम् । समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥
पापानां वा शुभानां वा वाणां प्लवङ्गम कार्य करुणमार्येण न कश्चिन्नापराध्यति ॥ ४४
लोकहिमाविहारणां रक्षमां कामरूपिणाम् । कुर्वनामपि पापानि नैव कार्यमशोभनम् ॥
एवमुक्तम्तु हनुमान् सीतया वाक्यकोविदः । प्रत्युवाच तनः सीतां रामपली यशम्विनीम् ||
युक्ता रामस्य भवती धर्मपत्नी यशम्बिनी। प्रतिसंदिश मां देवि गमिध्ये यत्र राधवः ॥
एममुक्ता हनुमना वैदेही जनकात्मजा । अब्रवीद्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥
तम्यास्तद्रचनं श्रुत्वा हनुमान् मान्नात्मजः । हर्षयन् मैथिलीं वाक्यमुबाचेदं महाद्युतिः ॥ ४९
३०.
४१
४५
४८
१. नसे: च. छ.।
४३