पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चदशोत्तरशततमः सर्गः
संस्कारेणानुरूपेण योजयामास रावणम्' । चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् ॥ १०४
झालया संवेशयांच राङ्कवास्तरणावृताम् । वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः ॥ १०५
प्रचफ्रू राक्षसेन्द्रस्य पितृमेघमनुक्रमम् । वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम् || १०६
पृषदाज्येन संपूर्ण सुवं सर्वे प्रचिक्षिपुः । पादयोः शकटं प्रादुरन्तरूर्वोरुलूखलम् ॥
१०७
दारुपात्राणि सर्वाणि अरणि चोत्तरारणिम् । दत्त्वा तु मुसलं चान्यद्यथास्थानं विचक्षणाः ||
शास्त्रदृष्टेन विधिना महर्षिविहितेन च । तत्र मेध्यं पशुं हत्वा राक्षमेन्द्रस्य राक्षसाः ॥ १०९
परिस्तरणिकां राज्ञो वृताक्तां समवेशयन् | गन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः || ११०
बिभीषणसहायास्ते चस्त्रैश्च विविधैरपि । लाजैश्वावकिरन्ति स्म बाप्पपूर्णमुखास्तदा ॥ १११
ददौ च पावकं तस्य विधियुक्तं विभीषणः । स्नात्वा चैवार्द्रवस्त्रेण तिलान् दूर्वाभिमिश्रितान् ॥
उदकेन च संमिश्रान् प्रदाय विधिपूर्वकम् | प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ||
ताः स्त्रियोनुनयामास सान्त्वमुक्ता पुनः पुनः । गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः | रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ||
रामोऽपि सह सैन्यन ससुग्रीवः सलक्ष्मण: । हर्षं लेभे रिपुं हत्वा यथा वृतं शतक्रतुः ॥
११५

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहलिकायां संहितायाम्
युद्धकाण्डे मन्दोदरी विलापो नाम चतुर्दशोमरशततमः सर्गः
पञ्चदशोत्तरशततमः सर्गः
विभीषणाभिषेक:
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः | जम्मुः स्वैः स्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ॥
१. अस्यानन्तरम् - ततः प्रविश्य लङ्कां तु
राक्षसेन्द्रो विभीषणः | रावणस्यामिहोत्रं च समासन्य
विनिस्मृतः ॥ स प्रविष्य पुरी लहां राक्षसेन्द्रो विभी
षणः ।
तथा
रावणस्या मिहोत्रं तु निर्यापयति सत्वरम् ॥
शकटान् दारुरूपाणि अमीन के याजकांस्तथा।
चन्दनकाष्ठानि काठानि विविधानि च। अगणि गु.
गन्धीनि गन्धांश्च सुरभस्तथा। मणिमुक्काप्रवालानि
निर्यापंयति राक्षस: । आजगाम मुहूर्तेन राक्षस: परि-
वारितः ॥ तसो माल्यवता साधं क्रियामेव चकार स:
सौमणी शिबिकां दिव्यामारोप्य क्षौमवाससम् ॥ रात्रणं
राक्षसाभौशमश्रुपूर्णमुखा द्विवा: । तूर्यषोषैश्च विविधैः
दिया मिनन्दिताम्। पताकाभिश्च चित्राभिः ग-
मनोभिथ चित्रिताम् | उत्क्षिप्य शिबिकां तां तु
विभीषणपुरोगमाः॥ दक्षिणाभिमुखा: सर्वे गृह्य काष्टानि
भेजिरे । अनयो दीप्यमानास्ते तदा पर्युसमी रिताः ॥
शरणाभिगताः सर्वे पुरस्तातस्य ते ययुः अन्तः पुराणि
सर्वाणि रुदमानानि सत्वरम् | पृष्ठतोऽनुययुस्तानि
स्वमानानि सर्वतः ॥ रावणं प्रयते देशे स्थाप्य वे
भृशदुःखिताः ॥ इति पुना ।
J
२. अस्थानन्तरम् - ततो विमुक्त्वा सशर
शरासनं महेन्द्रदतं कवचं च तन्महत्। विमुच्य शेषं
रिपुनिग्रहाततो रामः स सौम्यत्वमुपागतोऽरिहा ॥ --
इति पुनः