पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८९४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे
७७
७८
७९
८३
भ्रातॄणां चापि कार्त्स्न्येन हितमुक्तं त्वयानघ । हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् ॥
विभीषणेनाभिहितं न कृतं हेतुमत्त्वया । मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा ||
न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् । नीलजीमूतसंकाश पीताम्बर शुभाङ्गद ॥
स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः । प्रसुप्त इव शोकार्ता किं मां न प्रतिभाषसे ||
महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः । यातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ ८१
उत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे । अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ ८२
येन सूदयसे शत्रून् समरे सूर्यवर्चसा | वज्रो वज्रघरम्येव सोऽयं ते सततार्चितः ॥
रणे शत्रुप्रहरणो हेमजालपरिष्कृतः । परिघो व्यवकीर्णते बाणैश्छिन्नः सहस्रधा !
प्रियाभिवोपगृप त्वं शेषे समरमेदिनीम् । अप्रियामिव कम्माच्च मां नेच्छस्यमिभाषितुम् ॥ ८५
घिगस्तु हृदयं यस्या ममेदं न सहस्रधा । त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥
इत्येवं विलपन्त्येव बाष्पव्याकुललोचना । स्नेहावस्कन्नहृदया देवी मोहमुपागमत् ||
कश्मलाभिहता सन्ना बभौ सा रावणोरसि | सन्ध्यानुरक्त जलदे दीप्ता विद्युदिवासिते ॥ ८८
तथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः । पर्यवस्थापयामामू रुदत्या रुढती भृशम् ॥
न ते सुविदिता देवि लोकानां स्थितिरध्रुवा | दशाविभागपर्याये राज्ञां चञ्चल्या श्रिया ॥ ९०
इत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह । नापयन्ती त्वभिमुखौ स्तनावलाम्बुवित्रवैः ॥ ०.१
एतस्मिन्नन्तरे रामो विभीषणमुवाच ह् | संस्कारः क्रिगनां आतुः स्त्रियश्चैता निवर्तय ||
तं प्रश्रितम्ततो रामं श्रुतवाक्यो विभीषणः | विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ ९३
रामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत । त्यक्तधर्मत्रतं क्रूरं नृशंसभनृतं तथा ।।
नाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम् । भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः || 2.4
रावणो नाहते पूजां पूज्योऽपि गुरुगौरवात | नृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि ॥ ९६
श्रुत्वा तम्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः। तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः॥ ९७
विभीषणमुवाचेदं वाक्यज्ञो बाक्यको विदम् । तवापि मे प्रियं कार्य त्वत्प्रभावाच मे जितम् ॥
अवश्यं तु क्षमं बाच्यो मया त्वं राक्षसेश्वर । अषर्मानृतसंयुक्तः कामं त्वेष निशाचरः ॥ ९९
तेजस्वी बलवान्शूरः संयुगेषु च नित्यशः । शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥ १००
महात्मा बलसंपन्नो रावणो लोकरावणः । मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥ १०१
क्रियतामस्य संस्कारो ममाप्येष यथा तव । त्वन्सकाशाद्दशग्रीवः संस्कार विधिपूर्वकम् ॥ १०२
प्राप्तुमर्हति धर्मज्ञ त्वं यशोभाम्भविष्यसि । राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥१०३