पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुदशोत्तरशततमः सर्ग.

ओजसा हसवाक्यानां वक्तारं रिपुसंनिधौ । स्वयथभृत्यवर्गाणां गोमारं भीम विक्रमम् ||
हन्तारं दानवेन्द्राणां यक्षाणां च सहस्रश | निवानकवचानां च संग्रहीतारमीश्वरम् ॥
नैकयज्ञ विलोप्सारं त्रातारं स्वजनस्य च धर्मव्यवस्थाभेत्तारं मायावष्टारमावे ||
देवासुरनृकन्यानामाहर्तारं ततस्ततः । शत्रुस्त्रीशोकढ़ानारं नेनारं स्वजनम्य च ||
लंकाद्वीपम्य गोप्सारं कर्तारं भीमकर्मणाम् । अस्माकं कामभोगानां दातारं रथिनां वरम् ॥ ५५
एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् । स्थिरास्मि या देह मिमं धारयामि हतप्रिया ॥
शयनेषु महार्हेषु शयित्वा राक्षमेश्वर । इह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः ।।
यहा मे तनय शम्तो लक्ष्मणेनेन्द्र निधि | ताम्म्यमा तीव्रमद्य त्वम्मिन्निपानिना || ५८
नाहं बन्धुजनैहींना हीना नाथन तु त्वया । विहीना कामभोगंश्च शोचिये शाश्वती,समाः ॥
प्रपन्नो दीर्घम वानं राजन्नद्यमुदुर्गमम् | नय मामपि दु वार्ता न जीविष्ये वन विना ॥ ६०
कम्मात्त्वं मां विहाये कृपणां गन्तुमिच्छसि । हीना विलपितर्मन्द्रा किं वा मां नाभिभाषसे ||
दृष्ट्वा न ग्वल्बसि क्रुद्धो मामिहनवकुण्ठिताम् । निर्गतां नगरद्वारात् पद्धयामेवागतां प्रभो ॥६२
पश्येष्टदार द्वारांते भ्रष्टलजावटतान् | बगनपतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि ॥
अयं क्रीडासहा स्तेऽनाथ लालप्यते जनः । न चैनमाश्वासयसे किं वा न बहु मन्यसे ॥ ६४
यास्त्वया विधवा राजन कृता नैका कुलस्त्रिय पतिव्रता धर्मपरा गुरुशुश्रूषणे रता ॥ ६५
ताभिः शोकाभितप्ताभि शत परवशं गतः । त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ ६६
प्रवादः सत्य एवायं त्वां प्रतिप्रायशो नृप । पतिव्रतानां नाकम्मात् पतन्त्यश्रणि भूनले ॥ ६७
कथं च नाम ते राजल्लोकानाक्रम्य तेजमा | नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ ६८
अपनीया श्रमाद्रामं यन्मृगच्छचना त्वया । आनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥
कातयं च न ते युद्ध कदाचित संस्मराम्यहम् । नत्तु भाग्यविपर्यासान्नृनं ते पक्कलक्षणम् ॥ ७०
अतीतानागतार्थज्ञो वर्तमान विचक्षण | मैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् ॥ ७१
सत्यवाक् स महाबाहो देवरो मे यदब्रवीत | सोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थिनः ॥७२
कामक्रोधसमुत्थेन न्यसनेन प्रसङ्गिना । निर्वृत्तम्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान् ॥ ७३
त्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् | न हि त्वं शोचितव्यो मे प्रख्यातबलपौरुष ॥ ७४
स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते । सुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः ॥
आत्मानमनुशोचामि त्वद्वियोगेन दुःखिता। सुहृदां हितकामानां न श्रुतं वचनं त्वया ॥ ७६
1
1
८०३